________________
३४०
श्रीशिवराजविनिर्मितो
अथ द्वितीया घातवटी। भूपालवल्लभे-नामधिष्ण्यं मुखे दद्याद्वे नेत्रे त्रीणि मूर्धनि । वेदा बालोः पञ्च हाद पृथक् चत्वारि पादयोः ॥ १ ॥ मुखं नेत्रं शिरो वामहस्तो वामपदं च हृत् । यान्यहस्तस्तथा पादः क्रमाद्योन्दुयुक्खलाः ॥२॥ तत्र घातो विनिर्देश्यो घातायातस्तु केतुतः। यत्राङ्ग विबलाः सौम्यास्तत्र घातेऽपि जीवति ॥ ३॥ ऊर्ध्वदृष्टी कुजादित्यावधोदृष्टी तमाशनी । समदृष्टी जीवचन्द्रौ तिर्यग्दृष्टी ज्ञभार्गवौ ॥ ४ ॥ दृष्टिभावाद्भवेद्घातो भुक्तांशाङ्गुलसंमितः । भोग्यांशाङ्गुलविस्तारस्त्रिगुणो वक्रगाद्ग्रहात् ॥ ५॥ देहस्थं कुलनक्षत्रमकुलं बाह्यसंस्थितम् । देहस्थपापघातेन स्वल्पनापि मृतिभवेत् ॥ ६ ॥
___अथ तृतीया घातवटी। विजयलताया-नराकारचक्रे मुखे योधधिष्ण्यं न्यसेन्मस्तके त्रीणि चत्वारि वामे । करेऽङ्घौ च पञ्चोदरे हृयथोऽत्रयं कण्ठके बाहुपादेऽष्ट सव्ये ॥१॥ सपापेन्दयुक्ते वदेद्घातमङ्ग सुधीः खेटभुक्तांशतुल्याङ्गुलं तु । भवेन्नैव घातो बलात्खेटभूमे टस्य स्थितस्यापि वक्ष्येऽग्रतस्ताम् ॥ २ ॥ रुद्रयामले ---रविनक्षत्रतः शीर्षे त्रयं चैकं मुखे स्थितम् । करयोः पादयोरष्टौ हृदये पश्चकं ततः ॥३॥ त्रयं कण्ठे ततस्तत्र विन्यसेद्ग्रहसंहतिम् । यत्र चन्द्रस्तत्र घातः पादयुक्ते महान्भवेत् ॥ ४ ॥ उदितांशकतुल्या स्याद्घाते तत्रागुलपमा । संपूर्णार्धाधिका भेदा इह शेयास्तु पूर्ववत् ॥ ५ ॥ सहदेवमते-गततिथ्याऽऽह लग्नैक्यं जन्मभादिनभान्वि. तम् । नवाप्तं शेषसंख्यस्य घातं खेटस्य चाऽऽदिशेत् ॥ ६॥ शिरस्याग्निर्मुखे चन्द्रो वामकक्षासु भूमिजः । ज्ञो वामकुक्षौ पृष्ठे च बातोर्घातपतिगुरुः ॥ ७ ॥ कट्यो; पादयोः शुक्रो दक्षकक्षासु वक्षसि । शनि भ्युदरे राहुर्मणिबन्धाग्रयोः शिखी ।। ८॥ स्वरसारे-जन्मभात्सप्तगो. भानुर्नेष्टो द्विदशे कुजः । चतुर्थे दशमे मन्दस्त्रिकोणे गुः शिखी मृतौ ॥ ९ ॥ मुखशीर्पोदरे भानुभौंमो हृद्भुजनाभिषु । राहुस्कन्धे च कक्षायां पृष्ठे वक्षसि मन्दगः ॥ १० ॥ केतुर्दण्डे त्रिधा हन्ति चन्द्रादाने विशेषतः । अथेन्दोः पापयुक्तस्य घातो चाच्योऽत्र जन्मतः ॥ ११ ॥ भाले भुजे हृदि क्रोडे पृष्ठे कटयां करे ततः । बस्तौ पांसुलिके संधौ गुह्येऽशे च क्रमेण तु ॥ १२ ॥
Aho! Shrutgyanam |