SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः । अथ वायुशूमिः। दक्षपृष्ठस्थितो वायुर्जयदो भवति ध्रुवम् । वामाङ्गे भयदः प्रोक्तः सर्वयुद्धेषु सर्वदा ॥१॥ इति वायुभूमिः। अथ भूबलम् । युद्धार्णवे-युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम् । यदा सूर्यप्रवाहस्तु यायी विजयते ध्रुवम् ॥ १॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे। विजयो वह्नितत्त्वेन वायो भङ्गो मृतिस्तु खे ॥२॥ पूर्णनाडीगतं पृष्ठे शून्यमङ्गं तदग्रतः। शून्यस्थानकृतः शत्रुम्रियते नात्र संशयः ॥३॥ पूर्वोत्तरदिशोश्चन्द्रो भानौ पश्चिमयाम्ययोः । स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ ४ ॥ एतेषां भूबलानां तु भूरिमेलापको बली । प्रागुक्तं यद्दिने सर्वं तद्वद्रात्रौ प्रकल्पयेत् ॥ ५॥ इति भूबलम् । अथ घातचक्रम् । जयर्यायां-नराकारं लिखेच्चक्रमष्टावयवसंयुतम् । येन विज्ञातमात्रेण ज्ञायते घातनिर्णयः ॥ १ ॥ मुखैकं मस्तके त्रीणि हस्ते पादे चतुश्चतुः । हृदि पञ्च त्रिकं कण्ठे साभिजिद्भानि विन्यसेत् ॥ २॥ कृत्वा योधभमादौ तु मुखे शिरसि वामयोः । हस्ताभ्योर्हदये दक्षकराभ्योगणयेत्क्रमात् ॥३॥ यत्राङ्ग भानुभौमार्किराहवो धिष्ण्यसंस्थिताः । तत्र घातं विजानीयाञ्चन्द्रयोगे विशेषतः ॥४॥ ग्रहमुक्तिप्रमाणेन नवांशकक्रमेण वा । प्रहरो जायते तत्र चक्रे त्रिगुणसंख्यया ॥ ५॥ निजभोच्चेऽर्धघातं च पादोनं मैत्रभे ग्रहे । उदासीने. भवेत्सर्वं द्विगुणं शत्रुभे वदेत् ॥ ६॥ एकोऽप्यनेकघातांश्च करोति भूबलोज्झिते । भूबलस्थे भटे खेटाः स्थिता वातं न कुर्वते ॥ ७ ॥ क्रूराघातं न कुर्वन्ति पृष्ठदक्षिणगे रवौ । संमुखा वामगा ये ते योधाङ्ग घातकारकाः ॥ ८॥ दक्षिणाङ्ग गताः क्रूराः सौम्या वामाङ्गसंस्थिताः । शिरश्छेदेऽपि संजाते कवन्धं संमुखं व्रजेत् ॥ ९॥ यस्य वामाङ्गगाः क्रूराः सौम्यखेटास्तु दक्षिणे । स मृत्यु नूनमायाति यद्यपि स्यान्महाभटः ॥१०॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy