________________
३३६
श्रीशिवराजविनिर्मितोतस्तस्मात्तान्परिवर्जयेत् ॥ ८ ॥ घातः पातं ग्रसत्युग्रं पलः कालं निकृन्तति । घातकालस्थयोस्तस्माल्लोहपातात्त्वधःस्थिते ॥ ९ ॥
इति वडवानली भूमिः। तत्र मन्त्र:-पश्चवक्त्रं दशभुजं त्रिनेनं शूलधारिणम् । जटाधरं वृषारूढं ध्यायेद्रुद्रं जयप्रदम् ॥ १ ॥ चैत्रात्संहारमार्गेण पूर्वादिदिक्चतुष्टये । दक्षे पृष्ठे जयो युद्ध जयो विष्णुविनिर्मते ॥ २॥
अथ क्षेत्रपाली। विलोमं पूर्वतो मासाश्चैत्राद्या दिक्चतुष्टये । महरा[:]न्स(स)व्यमार्गेणमासस्थानादि गण्यते ॥१॥ चतुरङ्ग कवौ कोटे जयदा पृष्ठदक्षिणे । क्षेत्रपाली महाभूमिभूपालानां जयोत्कटा ॥२॥
अथ पक्षभूमिः। पूर्वोत्तरदिशोः शुक्ले कृष्णेऽन्तकजलाशये । जयदा पक्षभागेण गौरी काली क्रमेण च ॥१॥
__ अथ कालभूमिः। पूर्वाह्ने पावके कोणे पराढे वायुगोचरे । इयं गुयाभिधा भूमिर्जयदा पृष्ठदक्षिणे ॥१॥
अथ बिम्बभूमिः। जयचर्यायां-पराह्नः पूर्वदिग्भागे ततः सव्येन मन्दगः। यत्र स्यात्तत्र कालः स्यात्पाशस्तस्य तु संमुखः ॥ १॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रितः । यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभनः ॥ २ ॥ भूपालवल्लभे-पूर्वस्यां दिनपं कृत्वा पृष्ठे वारान्यसेत्क्रमात् । यत्र मन्दस्तत्र कालस्तन्मुखो भङ्गमाप्नुयात् ॥ ३ ॥ अज्ञातभूबलो योधः शीघ्रं सङ्ग्रामकर्मणि । जयमुद्रां समासाद्य युद्धं कुर्वञ्जयी भवेत् ॥ ४॥ जिह्वाग्रं विन्यसेत्तालौ पृष्ठे कृत्वा समीरणम् । दामागुष्ठं क्षिपेन्मुष्टौ जयमुद्राऽभिधीयते ॥ ५॥ दक्षपृष्ठे रवेषिम्बं जयदं समराङ्गणे । चन्द्रबिम्ब तथा रात्रौ पुरो वामे च शोभनम् ॥ ६ ॥
अथ लगभूमिः। सूर्यराश्यादितः सन्ये लग्नं तत्कालसंभवम् । पृष्ठदक्षिणगं कृत्वा जयो युद्धे न संशयः ॥ १॥
Aho! Shrutgyanam