________________
३३४
श्रीशिवराजविनिर्मितोग्रामदुर्गयोः॥ १॥ स्थानभाच्छत्रुभं मध्ये शत्रुभङ्गः प्रजायते । चन्द्रभाच्छत्रुभङ्गः शत्रोर्भवति बन्धनम् ॥ २॥ ग्रामभात्कोटभात्स्वामिधिष्ण्याद्वा क्रूरखेचराः। भङ्ग गर्भस्थिताः कुयुः सौम्या गर्भे जयप्रदाः॥३॥ भूपालवल्लभेक्रूरा गर्ने पुरं घ्नन्ति प्राकारे खण्डिकारकाः । बहिष्टा वेष्टके सैन्ये मृत्युदा नात्र संशयः ॥ ४ ॥ मध्ये क्रूरा बहिः सौम्या गृह्यते निश्चितं पुरम् । सौम्या मध्ये बहिः क्रूरा दुःसाध्यं दुर्गमच्यते ॥ ५॥ प्राकारे संस्थिताः क्रूरा मध्ये सौम्या ग्रहा यदि । दुर्गभङ्ग समुत्पन्ने भङ्गमायान्ति वेष्टकाः ॥ ६॥ प्राकारे खेचराः सौम्या मध्ये क्रूरचतुष्टयम् । भेदाद्भङ्गो भवेत्तत्र विना युद्धेन गृह्यते ॥७॥ वक्रगाः पुरमध्यस्था यदि स्युः करखेचराः । पुरं मुक्त्वा पलायन्ते दुर्गस्था नात्र संशयः ॥ ८॥ दुर्गमध्ये गते सूर्ये जलशोषः प्रजायते । चन्द्रे भङ्गः कुजे दाहो बुधे बुद्धिः शुभाया ॥९॥ गुरौ सुभिक्षं सबलं बलं शुक्रे शनी रुजः । राहौ भङ्गो भयं भेदः केतौ विषभयं प्रभोः ॥ १० ॥
आ०
आ०
पुष्य
आ.
उ०म० अ०र० उ०
ह.चि.स्वा. वि. द०॥
पू०भा०
प० पा० उ. पा० अभि श्र०
वा०
प.
इति कविचक्रम् । एतदेव कोटचक्रम् ।
Aho ! Shrutgyanam