SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। ३३१ धिष्ण्याने जीवपक्षे त्रयोदश । त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः॥८॥ *जयार्णवे-जीवो ग्लावमृते हंसोऽथवा द्वौ जीवपक्षगौ । तदा यात्रा शुभा ज्ञेया वैपरीत्ये तु हानिदा ॥९॥ चन्द्रे वदनगे यायी नश्येत्स्थायी गुदस्थिते । जीवपक्षे जयी यायी मृत्युगे स्थायिनो जयः ॥१०॥ ब्रह्मयामले-जीवपक्षगते चन्द्रे कार्य स्यादमृतोपमम् । मृतपक्षे मृतं ज्ञेयं यतश्चन्द्रबले बलम् ॥ ११॥ ज्योतिष्प्रकाशे-नन्दषट्कं भूपषट्कं त्रिकमन्त्यं गपे न सत् । राहुभाच्छेपधिष्ण्यानि दशाङ्गे नो शुभानि च ॥ १२ ॥ जयभैरवे-युद्धकाले यदा शीघ्र यात्रायोगो न लभ्यते । उत्पाद्यते तदा शीघ्रं तत्कालेन्दुदिवाकरौ ॥ १३ ॥ जयचर्यायाम्-इष्टा नाड्यो हता धिष्ण्यैः षष्टिभागातशेषके । अश्विन्यादीन्दुभुक्तेन युक्ते तत्कालचन्द्रमाः ॥ १४ ॥ यथा चन्द्रस्तथा सूर्यः कर्तव्यश्चेष्टकालिकः । यतोऽहोरात्रमध्ये तो भ्रमन्तौ धिष्ण्यमण्डले ॥ १५ ॥ इति राहुकालानलम् । अथ चन्द्रार्ककालानलम् । सिंहात्षट्कं रविक्षेत्रं चन्द्रक्षेत्रं घटादिकम् । चन्द्रक्षेत्रे चन्द्रसूर्यों स्थायिनो जायते वधः ॥ १॥ स्वक्षेत्रगौ चन्द्रसूर्यों संधियुद्धं विपर्यये । कर्तयां यदि चन्द्राकौं संहारः सैन्ययोर्द्वयोः ॥ २ ॥ चन्द्रसूर्यौ रविक्षेत्रे यातुर्भङ्गोऽन्यथा जयः । यात्रायां युद्धकाले च चान्द्रस्थौ स्थायिनां शुभम् ॥ ३ ॥ इति चन्द्रार्ककालानलम् । अथ रिक्तपूर्णचक्रम् । भानुभाद्भानुसंक्रान्ते रिक्तः पूर्णो विधुः क्रमात् । चन्द्रे रिक्ते जयी पौरः पूर्णे यायी जयी ममे ॥१॥ इति रिक्तपूर्णचक्रम् । अथ कुलाकुलचक्रम् । जयचर्यायां--द्वितीया दशमी षष्ठी कुलाकुलाः प्रकीर्तिताः । विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ १॥ रविश्चन्द्रो गुरुर्मन्दश्चत्वारो ह्यकुला मताः । भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः ॥२॥ वारुणा भिजिम्यूलं कुला. * जीवपक्षे क्षपानाथे मृतपक्षे रवौ तथा । तरिम-काले शुभा यात्रा विपरीता तु हानिदा ॥ इति जयचर्याय म् । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy