________________
ज्योतिर्निबन्धः।
३२७
अथ स्वरोदयः । लाभालाभौ सुखं दुःखं जीवितं मरणं तथा । जयः पराजयश्चेति सर्व ज्ञेयं स्वरोदये ॥ १॥ शत्रुपराभवे-अकछडधभवा नन्दातिथित्रये भानुभौमयोः क्षेत्रे । उदिता अन्त्यात्सप्तः क्रियगोयुग्मांशषट्के स्युः ॥ २ ॥ इखजंढनमशा भद्रात्रितये बुधचन्द्रयोः क्षेत्रे । आदित्यात्पञ्चसु मिथुनान्त्ये कर्कटे सिंहे ॥ ३ ॥ उगझतपयषा जयात्रितये गुरुगृहे भवन्त्युदिताः । अर्यमधिष्ण्यात्पञ्चसु कन्यायां तुलिनि वृश्चिकत्रिलवे ॥ ४ ॥ एघटथफरसा वर्णा रिक्तात्रितये गृहे भृगोरुदिताः । मैत्रात्पश्चसु वृश्चिकशेषे चापे मृगस्य लवषट्के ॥ ५ ॥ ओचंठदबलहवर्णाः पूर्णातिथित्रये गृहेऽर्कतनयस्य । उदिताः श्रुतिपश्चके मृगशेषे कुम्भभे च झषे ॥ ६॥ भूपालवल्लभे-द्वादशाब्दादिनाड्यन्ताः स्वस्थानेषु स्वकालतः । * उदयन्ति स्वभोगेन तथैकादशधा स्वराः ॥ ७ ॥ कूर्मयामले-प्राच्यादिदिक्षु मध्ये च नन्दादितिथिषु क्रमात् । आदयो ह्युदयन्त्यस्मात्पञ्चम्यामस्तगामिनः ॥ ८ ॥ तिथिभुक्तघटीसंख्या षष्टिना भगुणोद्धृता ३२७ । लब्धं पञ्चहतं शेषं स्वरस्तत्कालजो भवेत् ॥९॥ शत्रुपराभवे-उदितस्वरस्य नाम्नः पञ्चावस्थाः क्रमात्स्वतिथिभोगात् । बालकुमारप्रौढस्थविरास्तमिताश्च विज्ञेयाः ॥ १० ॥ रुद्रयामले-स्वनामाद्यक्षरं यत्र कोष्ठे तस्मादनक्रमात् । बालस्वरः कुमारश्च तरुणः स्थविरो मृतः ॥ ११ ॥ किंचिल्लाभकरो बालः कुमारस्त्वर्धलाभदः । युवा सर्वार्थदः प्रोक्तो वृद्ध हानिमृते क्षयः॥ १२ ॥ जयचर्यायां-युद्धे वादे चं यात्रायां नष्टे दृष्टे रुजान्विते । बालस्वरो भवेढुष्टो विवाहादौ भवेच्छुभः ॥ १३ ॥ सर्वेषु शुभकार्येषु यात्राकाले विशेषतः । कुमारः कुरुते वृद्धि सङ्ग्रामे सक्षतो जयः ॥ १४ ॥ शुभाशुभेषु कार्येषु मन्त्रयन्त्रादिसाधने । सर्वसिद्धिं युवा दत्ते याने युद्धे विशेषतः ॥ १५ ॥ दाने देवाचेने दीक्षाविधी मन्त्रप्रकल्पने । वृद्धस्वरो भवेद्भव्यो रणे भङ्गो भयं गमे ॥ १६ ॥ विवाहादि शुभं सर्व सङ्ग्रामाद्यशुभं तथा । न कर्तव्यं नरैः किंचिज्जाते मृत्युस्वरोदये ॥ १७ ।। भूपालवल्लभे-यो यस्य पञ्चमस्थाने स स्वरो मरणप्रदः। तृतीये सर्वसिद्धिः स्याच्छेषे मध्यफलोदयः ॥ १८ ॥ मृत्युहीनस्वरे नाम्नि जयो नाम्नि स्वराधिके । समनाम्नि भवेत्साम्यं
* जयचयार्यो' उदयान्तेस।
१ घ. 'जउठ । २ ख. ध. मात° | ३ ख. °के ॥ ५॥ आचकवल° । ४ प. चढबल । ५ क. वहृतं । ६ ख. ‘मेसंस्कृतो । ७ ब, गोद्गमे । ८ क. घ. त्युदने ।
Aho! Shrutgyanam