SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । अथ नष्टजन्म | लग्नत्रिकोणराशीनां जन्मराशिर्बलाधिकः । शीर्षादि संस्पृशन्प्रष्टा पृच्छेत्तद्राशिमादिशेत् || १ || गुरुर्लने पितोत्पन्नो राहुकेतू तु शात्रवः । शनिर्लने पूर्वमित्रं तन्मृत्युः शस्त्रतः पुरा ॥ २ ॥ बुधे तोयात्कुजे त्वाजौ मृत्युः शुक्रेरितः पितुः ॥ ३ ॥ अथ दुर्दिने लग्नज्ञानम् । रमंशुर्बुगुशंचन्द्रा वर्गेशाः प्रश्नवर्णतः । लग्नं तत्र ग्रहादीनामोजे चौजं समे समम् ॥ १ ॥ तल्लग्नाद्ग्रहयोगैश्च पूर्वोक्तः फलमादिशेत् । प्रच्छकोच्चारिताङ्केभ्यो लग्नांशांस्तत्र कल्पयेत् ॥ २ ॥ ३२५ अथ चिन्तामुष्टिकज्ञानम् । कुजाक धातुसंज्ञौ तु मूलसंज्ञौ शशीनजौ । जीवाख्यौ जीवशुक्रौ च योनिtria बुधः ॥ १ ॥ यलग्नं यस्य खेटस्य तस्मादारभ्य यावति । योनिग्रहो भवेत्तस्मात्ततो योनिविनिर्णयः || २ || लग्नोदितनवांशे वा चन्द्रे वाऽप्येवमेव हि । केन्द्रगैर्वा योनिका मुष्टिश्व कथ्यते ॥ ३ ॥ चन्द्रार्कौ मृत्युलोकेश ज्या स्वर्गाधिपौ मतौ । स्मृताः पाताललोकेशाः सौरारभृगुराहवः ॥ ४ ॥ अथ फलकालनिर्णयः । 1 लग्नेशो वीक्षते लग्नं कार्येशः कार्यमीक्षते । कार्यसिद्धिर्भवेदिन्दुः कार्यमेति तदा स्फुटम् || १ || लग्नेशो वीक्षते कार्य कार्येशो लग्नमीक्षते । तदा कार्यस्य संसिद्धिरिन्दुर्लनं यदेति च ॥ २ ॥ कार्यकार्येशमध्यांशास्तान्पितैर्वर्षमासकैः । दिनैर्दण्डैर्यथायोग्यं योज्याः कार्यस्य सिद्धये || ३ || अयनक्षणदिवसतुमासः पक्षः समार्कतो ज्ञेयः । लग्ननवशपतुल्यः कालो लग्नोदितांशसमसंख्यः ॥ ४ ॥ इति शूरमहाठ श्रीशिवराजविनिर्मिते । ज्योतिर्निबन्धसर्वस्वे प्रश्नाध्यायः समीरितः ॥ अथ स्वरशास्त्रसारम् । तत्राssaौ स्वरशास्त्रप्रशंसा । विलोक्य स्वरशास्त्राणि शिवोक्तानाममानपि । स्वानुभूत्याऽत्र तत्सारं बुवे १ क. 'घुथुसच' । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy