SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३२२ श्रीशिवराजविनिर्मितोब्दैर्यक्त्या तस्याऽऽगमं वदेत् ॥ ५॥ बुधाब्जयोः खेशयोगात्करे लेखश्चटी(खः पति ) ष्यति । नान्यथा केन्द्रगे चन्द्रे स्थिरभेऽन्यादरं वदेत् ॥६॥ सौम्यैर्योगं बुधः प्राप्य शुभा वार्ताऽन्यथा खलैः । तस्मिन्मूर्त्यादिभावस्थे वार्ता तदनुयायिनाम् ॥ ७॥ अथ वार्तापृच्छा। चन्द्रो लग्नपति र्वाऽपि यदि केन्द्रे शुभान्वितः । किंवदन्ती तदा सत्या स्यादसत्या विपर्यये ॥ १॥ शुभा शुभान्विते सत्या तथा दुष्टा खलान्विते । लग्ने तदीश्वरे शुक्रे स्यात्सत्याऽग्रे जनश्रुतिः ॥२॥ अथ हन्तुं गमनम्। रिपुं हन्तुं गमिष्येऽद्य लग्ने क्रूरयुते जयः । लग्नेन्दू स्वेशदृष्टौ वा जयः प्रष्टुर्न चान्यथा ॥१॥ स्वस्वामिना स्नेहदृशाऽवलोकितस्तदा रिपुर्निगृहीतोऽपि मुच्यते । चेत्क्रूरदृष्टया युधि नश्यतेऽसौ यदैको तौ विधृतः पलायते ॥२॥ मूर्ती सुखे च चन्द्रे चरभस्थे चेत्पराभवः प्रष्टुः । सशुभेऽब्जे संतोषः सङ्करे निःसृतो ध्रियते ॥३॥ __ अथाभिचारः। वलवल्लग्नपे सिद्धिरभिचारेऽस्य जायते । गुरौ लग्ने रवौ खस्थ इन्द्रजालं प्रसिध्यति ॥१॥ ___ अथ योगसिद्धिः । लग्ने वा दशमे सूर्यो यद्वा सौम्यग्रहो भवेत् । योगसिद्धिस्तदा वाच्या प्रव्रज्यायोगतोऽथवा ॥१॥ ___ अथ विद्यान्यासः। सौम्यैः केन्द्रत्रिकोणायस्थितैः शीर्षोदयो भवेत् । विद्याप्तिरथ वेतालसिद्धियोगैर्जयावहैः ॥१॥ अथ काव्यम् । लग्नेशचन्द्रपुत्रेशाः प्रबन्धे ज्ञानकाव्ययोः । कारणं तदलं प्रश्ने ज्ञात्वा तेभः फलं वदेत् ॥ १॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy