________________
श्रीशिवराजविनिर्मितोअथ वर्षेऽस्मिन्कथं स्यात् ।
सम वा मह वा वर्षेऽस्मिन्किं भविष्यति । तनुद्वये तदधिषे पुष्टापुष्टे समं वदेत् || १ || लग्ने लग्नेश्वरे पुष्टे विक्रयः क्रियते तदा । द्यूने द्यूनेश्वरे धान्यसंग्रहो ह्युभये द्वयम् ॥ २ ॥
३१६
अथ साटिः ।
द्यूनलपती मित्रे मित्रसाटिरिहेष्यते । वैरभावे तयोः साटिवैरित्वं कपटेन च ॥ १ ॥
अथानयोः कः सत्यः ।
विक्रेता सत्यवादी स्यात्सौम्यलग्ने तथा धने । क्रेता सत्य इनेन्दू चेच्छुभदृष्टौ सुशोभनौ ॥ १ ॥
सबले लाभलाभेशे मह
मिश्र के समम् ॥ १ ॥
अथ दिनचर्या ।
स्यात्क्रयाणकम् । अवले लाभलाभेशे सम
अथ धान्यनिष्पत्तिः ।
प्रश्ने धान्यस्य निष्पत्तौ चतुर्थे सद्ग्रहा यदि । केन्द्रे वा धान्यनिष्पत्तिः पापैर्धान्यक्षतिर्भवेत् ।। १ ॥
अथ सुभिक्षपृच्छा ।
स्वस्वामिशुभयुक्तेषु दृष्टेषु च चतुर्ष्वपि । केन्द्रेषु च सुभिक्षं स्यादुर्भिक्षं क्रूरखेचरैः ॥ १ ॥ यत्केन्द्रं विवलं तत्र दुर्भिक्षं तद्दिशि ध्रुवम् । मह क्रूरमध्यस्थं मिश्रं मिश्रैर्युतेक्षितम् ॥ २ ॥
अथ दुर्भिक्षम् ।
केन्द्रस्थौ राहुमन्दौ चेच्चतुर्थे वा विशेषतः । शुष्कलशे तदा वाच्यं दुर्भिक्षं निश्वयादिति ॥ १ ॥
अथ वृष्टिपृच्छा ।
कुम्भकर्कटगोमीनमकरालितुलाधराः । सजला राशयः प्रोक्ता निर्जला: शेषराशयः || १ || रविभौमार्कजाः शुष्काः सजलौ चन्द्रभार्गव । बुधवाचस्पती ज्ञेयौ सजलौ जलराशिगी ॥ २ ॥ सौम्या जलराशिस्थास्तृतीयधन केन्द्रगाः सिते पक्षे । चन्द्रे वा लग्नगते दलराशिस्थे वदेदृष्टिम् || ३ || जललग्नेऽम्बुखेटेश्व
Aho! Shrutgyanam