________________
३१०
श्रीशिवराजविनिर्मितो
अथान्यदुर्गभङ्गपृच्छा। दुर्गमन्यत्तथा चान्ये ग्राहकास्तत्र चाऽऽदिमम् । वचनं तत्स्वपक्षोत्र ज्ञात्वा पूर्वोक्तवद्वदेत् ॥ १॥
इत्यन्यदुर्गभङ्गपृच्छा।
अथ मन्त्रभेदपृच्छा। लग्नमध्यगतैः सौम्यै ने षष्ठेऽथवा गृहे । भेदे विचिन्त्यमानेऽत्र शीघं भेदः प्रसिध्यति ॥ १ ॥ शुभे लाभादियोगेऽपि भेदे सिद्धिरुदाहृता । तथा बलिनि लग्नेशे सप्तमे विवले ध्रुवम् ॥ २॥ भेदस्य शत्रुराशियस्तेनासौ भिद्यते द्रुतम् । सखिवश्यादिराशियस्तद्वारा भिद्यतेऽथवा ॥ ३ ॥
__ अथ विवादः । विवादे मरणे युद्धे लग्ने पापो जयावहः । न सौभ्यः सौम्यदृक् शस्ता पापा दृष्टिन शोभना ॥१॥ लग्ने करे जयी वादी प्रतिवादी तथाऽस्तगे । उभयत्रापि चेत्क्रूरो दीर्घरोषः प्रजायते ॥ २॥ वलवल्लग्ननाथेन घनपो हन्यते रणे । बलवान्यूनपो हन्याल्लग्ननाथं सुनिश्चितम् ॥ ३॥ लग्नं द्यूनं मुक्त्वा परस्परं क्रूरयोः सकलदृष्टौ । वादान्ते वादियुगं छुरिकाभ्यां प्रहरति तदैव ॥ ४॥ विवादे शत्रुसंघाते द्यूने युद्धे प्रमोपणे । पुरवातेऽभिचारे च ज्ञेयमेव जयादिकम् ॥ ५ ॥
अथ सेवापृच्छा। स्वामिचित्तं शुभदृष्टमपि लग्नपसप्तमौ । शुभस्वामीन्दुयुग्दृष्टौ शुभं व्यस्तेऽन्यथा भवेत् ॥१॥ यदा पृष्ठोदये लग्ने चूने शीर्षोदयो भवेत् । सेव्यसेवकयोवैरं ब्रूयात्प्रीतिविपर्यये ॥ २॥ धननाशो धने पापे विभ्रमः सप्तमे तथा । मरणं मृत्युयोगे स्यात्सौम्ये संपत्सुखं महत् ॥ ३॥ सेव्यसेवकयोः प्रीतिः प्रश्ने युग्मतुलालिनि । लग्ने प्रीतिस्तयोर्वाच्या कन्यालग्ने च मध्यमा ॥ ४ ॥ द्वितीयद्यूनरन्ध्रेषु सौम्याः प्रीत्यर्थसौख्यदाः । पापा भवन्ति तेष्वेव सेव्यसेवकविघ्नदाः॥ ५॥ यदा लग्नपतिलग्ने जायेशः सप्तमे यदि । तदा प्रीतियोर्वाच्या समानैव परस्परम् ॥ ६ ॥
अथाऽऽश्रयः । भवति स आश्रयणीयः प्रश्ने धनसप्ताष्टमेषु चेत्पापाः । हिबुकेऽपि तस्य नाशं कुर्युः सौम्याः सुखं दधुः ॥ १॥ एष स्वामी भव्योऽन्यो वा स्थानं यदि प्रश्ने । लग्नपतौ मकबूले स्वामी भव्योऽस्तपे तथाऽन्येशः ॥२॥ अन्येशो
Aho! Shrutgyanam