________________
ज्योतिर्निबन्धः ।
अथ वेष्टितदुर्गभङ्गपृच्छा |
वेष्टितं वा न वा प्रश्ने धने रिष्फे सपापके । तदा तद्वेष्टितं दुर्गे वाच्यं ग्रामादिकं परैः ॥ १ ॥ दुर्ग वैरिजनैस्तु वेष्टितमिति प्रश्ने द्वितीयान्त्यगैः पापैर्वेष्टितमस्ति किं तु न गतं त्वेकादशभ्रातृगैः । एवं स्यात्सभयं तथाऽम्बुखगतैः पापैरतीतं भयं यातं नेति च केन्द्रगैः खलखगेदुर्ग गृहीतं परैः ॥ २ ॥ लग्ने मध्येऽस्ते वा पितृभज्येष्ठे यदा भवतः ! दुर्गस्थानां विजयं सौख्यं शुभदृग्युते विशेषेण ||३|| शुभोऽम्बुनाथस्तनुपं बलान्वितः स्वोच्चस्थितः स्नेहशा प्रपश्येत् । दुर्गस्थितानां च शुभं तथैवं चेत्सप्तमं स्याच्छुभदं हि शत्रोः ॥ ४ ॥ धने लाभे यदि क्रूरावेष्टितः सभटो गडः । सुखे द्यूने यदा पापाः स्वयमुद्वेष्टितः परैः ॥ ५ ॥ मृत्युनाथः सभौमश्चेदसंख्याता सृतास्तथा । कण्टके सूर्यपुत्रद्धद्धाः स्युर्वहवो जनाः || ६ || लाभव्योमसुतस्थौ चेद्गुरुशुक्रौ तदा परः । त्यक्त्वा याति स्वकं देशं स्वास्थ्यं तत्कोटवासिनाम् || ७ || लग्नेशः शुभदः केन्द्रे कोटस्थानां शुभप्रदः | लग्ने पैत्रेन्द्रतिष्यश्चेत्कोटस्थैर्बाध्यते परः || ८ || वेष्टितोऽपि गडः प्रश्ने ग्रहीतुं शक्यते यदा । पापः केन्द्रगतथेत्स्यात्कोटोऽसौ गृह्यते तदा ॥ ९ ॥ लग्नपापान्तरा भागा यावन्तस्तावता दिनैः । मासैर्वर्षैश्वरादिस्थे लग्ने तद्गृह्यते स्फुटम् || १० || देशकालानुमानेन दिनाद्यं तत्र चेद्बुधे | द्रोहात्खण्ड्याः शनौ भौमे युद्धाद्वा विपादितः ॥ ११ ॥
इति वेष्टितदुर्गभङ्गःपृच्छा ।
३०९
अथ परदुर्गाप्तिपृच्छा |
परदुर्गं यदाऽस्माभिर्गृह्यते तत्र लग्नपे । सत्रले दुर्बलेऽस्तेशे लग्ने क्रूरयुतेऽपि च ॥ १ ॥ यायिनां जयदैयोगैर्यद्वा मध्यगतैः खलैः | लग्नक्रूरान्तरांशौक्तकाले तत्कोटमाप्यते ॥ २ ॥
अथाऽऽत्मदुर्गपुच्छा ।
आत्मदुर्ग परः किं नु गृह्यते तत्र लग्नपे । सबले लग्नपे क्रूरे स्थायिनां बलमा ( आ ) गते ॥ १ ॥ तदा दुर्गे न यात्येव द्यूने क्रूरग्रहो यदि । विवले लग्नपे याविले दुर्गे प्रयच्छति ॥ २ ॥
१. किंतु ।
Aho! Shrutgyanam