SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०७ ज्योतिर्निबन्धः । लग्नेशावन्यस्याऽऽगमकारकौ ॥ १३ ॥ स्थिरराशौ यद्युदये शनिः स्थिरे स्यात्तदाऽऽयातुः । उदये रविर्गुरुवा चरराशौ स्यात्तदाऽऽशु गमः॥१४॥ द्विशरीरगते लग्ने चरराशिगते विधौ । पन्थानमर्धमागत्य स्वयं शत्रुर्निवर्तते ॥ १५॥ चन्द्रोऽविष्ठितभं लग्नाद्यावत्संख्ये स्थितो भवेत् । रिपुरायाति तावद्भिर्दिनैर्मध्ये खगो न चेत् ॥ १६॥ इति परचक्रागमः। अथ युद्धपृच्छा। युद्धं भावि न [वा] चेत्पश्ने लग्नेशसप्तमाधीशौ । शत्रू स्यातां तु तदा युद्धं भवतीति वक्तव्यम् ॥ १॥ लग्नं लग्नस्य पूर्व वा यदि पापसमाश्रितम् । तदा घोरं भवेयुद्धं पापो वेक्षेत पापकम् ॥ २॥ लग्नास्तनाथयोोगे रणं दीर्घ समादिशेत् । मन्दे वक्रे स्वल्पबले केन्द्रेऽल्पं बहुभिर्दिनैः॥ ३ ॥ स्वगृहोचस्थे तु कुजे महारणं दशमगे भवति । लग्नस्थे मध्यतरं द्यूनस्थे सअनि प्रचुरम् ॥ ४ ॥ लग्नघूनपती पापो पापांशस्थौ तु युद्धदो । तावेव कलितो केन्द्रे षष्ठपो वा तथाविधः ॥ ५॥ कर्त- यदि चन्द्राकौं संहारः सैन्ययोर्द्वयोः । निकटे निकटं युद्धं दूरे दूरं च प्रच्छके ॥ ६॥ सिंहादि मकरान्तं हि सूर्यक्षेत्रमुदाहृतम् । कुम्भाधाः कर्किपर्यन्ताश्चन्द्रक्षेत्रं विदुर्बुधाः ॥ ७॥ इति युद्धपृच्छा। अथ जयपराजयौ। लग्नं च दशमं वाऽस्तं सौम्याढ्यं स्थायिनो जयः । तृतीये नवमे षष्ठे पापाश्वेद्यायिनो जयः॥१॥ उदयचतुर्थः क्रूरैः सप्तमदशमास्थितैः सौम्यैः । विजयो भवति हि युद्धे द्यूनोदयगैः शुभैश्चापि ॥२॥ सौम्यास्तृतीयभवनाद्धर्माद्वा यायिनः शुभैः शुभदाः । व्ययदशमा ये पापाः पुरस्य नेष्टाः शुभा यातुः ॥ ३ ॥ लग्नेशे धूनगेऽन्त्ये वा भवेत्प्रष्टः पराजयः। लग्नेशे वाऽस्तपे षष्ठे शत्रोरेव पराजयः॥ ४॥ लग्ने शशिनि कुजेऽस्ते विलोमतो वा तयोनाशः । स्वएतौ लग्ने प्रष्टस्तुर्थेशेऽस्ते रिपोः सहायबलम् ॥ ५॥ लग्ने क्रूरे भ्रष्टुर्विजयोऽस्ते च विद्विषो विजयः । लग्नेशेऽस्ते यायी निबध्यते लग्नगेऽस्तपे स्थायी ॥ ६ ॥ विवाहे शत्रुहनने रणे संकटके तथा । क्रूरे मूर्ती जयो शेयः क्रूरदृष्ट्या पराजयः ॥ ७ ॥ उभयोः को विजयीति प्रश्ने लाभे तथा धर्मे । बुधगुरुशक्रादित्याः स्थाने विजयं समा Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy