________________
३०६
श्रीशिवराजविनिर्मितो
वा स्युः ॥ १४ ॥ मन्दः पापसमेतो लग्नानवमे त्वशुभसंदृष्टः । रोगार्तः परदेशेऽष्टमगो वा मृत्युकर एव || १५ || सप्तमे यदि वा षष्ठे खेचरः कण्टके गुरौ । प्रवासी सुखमायाति ज्ञे शुक्रे वा तृतीयगे || १६ || गृहमागतो न यदासौ किं बद्धः किं नु हत इति प्रश्ने | मूर्ती क्रूरो यदि तन्निहतो बद्धोऽथवा पुरुषः ||१७|| सप्तमगोष्टो वा चेत्कूरस्तद्धतोऽथ बद्धो वा । मूर्ती समेऽपि च [यदा ] यद्वा लग्नेऽष्टमे च भवेत् || १८ || ग्रहो विलायत मे ग्रहे स्यात्तेनाऽऽहता द्वादश राशयस्तु । तावद्दिनान्यागमनस्य विद्यान्निवर्तनं वक्रगते ग्रहे च ॥ १९ ॥ गुरौ लग्नेऽथवा शुक्रे शत्रुतस्करसंकटे । न प्रहारोऽथवा हानिर्वक्तव्या पथि गच्छतः ॥ २० ॥ न विश्रामश्चरे लग्ने द्वौ विश्राम स्थिरात्मके । विश्रामत्रितयं प्रोक्तं द्विस्वभावे विचक्षणैः ॥ २१॥
इत्यागमनपृच्छा ।
अथ परचक्रागमः ।
नाऽऽगच्छति परचक्रं यदाऽर्कचन्द्रौ चतुर्थभवनस्थौ । गुरुबुधशुक्रा हिबुके यदा तदा शीघ्रमायाति ॥ १ ॥ सुतशत्रुगतेः पापैः शत्रुर्मार्गान्निवर्तते । चतुर्थगैरपि प्राप्तः शत्रुर्भग्नो निवर्तते || २ || झपालिकुम्भकर्कटा रसातले यदि स्थिताः । रिपोः पराजयस्ता चतुष्पदैः पलायनम् || ३ || मेषधनुः सिंहहृषा यद्युदयस्था भवन्ति हि वा । विनिवर्तते तदाऽरिग्रहसहिता वा वियुक्ता वा || ४ || लग्नादेवं स्मरस्थाने निवृत्तिः स्यात्प्रवासिनः । शुभयुक्तेक्षिते तन्न प्रवासोऽस्ति कर्मणि ॥ ५ ॥ द्वितीये वा तृतीये वा गुरुशुक्रौ यदा तदा । तदाऽऽश्वागच्छते सेना प्रवासो वा न संशयः || ६ || नवमे तु यदा पापाः पञ्चमे तु शुभाः स्थिताः रिपुरायाति देशस्थः कुरुते च पराभवम् || ७ || आयाति द्यूनपे वक्रे राशिचक्रे तु निश्चितम् । सीमान्तं धिष्ण्यचक्रे च मार्गे बक्रागमो ध्रुवम् ॥ ८ ॥ स्थिरे लग्नमागते द्विरात्मके तु चन्द्रमाः । निवर्तते रिपुस्तदा सुदूरमागतोऽपि सन् ||९|| चरे शशी लग्नगतो द्विदेहः पथोऽर्धमागत्य निवर्ततेारः । विपर्यये चाऽऽगमनं हि शत्रोः पराजयः स्यादशुभेक्षिते तु || १० || स्थिरे चन्द्रवरं लग्नं यदि चेत्स्यात्परागमः । लग्नं स्थिरं चरे चन्द्रस्तदा नास्ति परागमः ॥ ११ ॥ चरगौ स्थिरगङ्गराशिगी तनुशीतगू । आगमो नाऽऽगमः शत्रोः क्रमान्मार्गान्निवर्तनम् ॥ १२ ॥ बली क्रूरो यदा लने मार्गे स्याद्गच्छतो मृतिः । यद्दृष्टौ धर्म
५ क. 'रोनय' ।
Aho! Shrutgyanam