SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २९६ श्रीशिवराजविनिर्मितोनृपः ॥ ६ ॥ गुरौ कुलीरलग्नस्थे भास्करे मेषराशिगे । लाभस्थैश्चन्द्रशुक्रज्ञभूपो विक्रमवान्भवेत ॥ ७ ॥ बुधे कन्याविलग्नस्थे कुजशन्योः सुखस्थयोः । कलत्रस्थे सजीवेऽब्जे कर्मस्थे भार्गवे नृपः ॥ ८ ॥ अपि दासकुलोद्भूतो योगैरुक्तैरिमैनृपः । नृपजा वक्ष्यमाणैः स्युरन्यजास्तु नपोपमाः॥९॥ एकोऽपि बलवानखेटो भूपकृत्परमोच्चगः । केन्द्रादिशुभभावस्थो विशेषात्रय उच्चगाः ॥ १० ॥ लग्नस्थयोर्भीमशन्योः सुखस्थेऽब्जेऽस्तगे गुरौ । कर्मगेर्के बुधे लाभे शुक्रे धर्मस्थिते नृपः ॥ ११ ॥ लघुजातके-एकोऽपि नृपतिजन्मप्रदो ग्रहः स्वोच्चगः सुहृदृष्टः । बलिभिः केन्द्रोपगतेस्त्रिप्रभृतिभिरवनिपालभवः ॥ १२ ॥ वर्गोत्तमगतचन्द्रे चतुराद्यैर्वीक्षिते विलग्ने वा । नपजन्म भवति राज्यं नपतियोगे बलवति दशायाम् ॥ १३ ॥ सासवल्याम्-एक एव ग्रहः स्वोच्चे वर्गोत्तमगतो यदि । बलवामित्रसंदृष्टः कुरुते स महीपतिम् ॥ १४ ॥ केन्द्रे विलग्ननाथः सुहृद्भिरभिवीक्षितो यदा विहगैः । लग्नस्थितैश्च सौम्यभूपतिरिह जायते नियतम् ॥ १५ ॥ मृगसिंहौ परित्यज्य स्थितो लग्ने बृहस्पतिः । करोत्यवश्यं नृपतिं ववश्वपरिवारितम् ॥ १६ ॥ न्यूनोऽपि कुमुदवन्धुनपकुलजं पार्थिवं करोत्युच्चैः। किंपुनरखण्डमण्डलकरतः प्रकटितदिगन्तः ॥ १७ ॥ जातकोत्तमे-जन्मेशो वा विलग्नेशः केन्द्रस्थः पूर्णविक्रमः । संपूर्णों वा शशी तद्वत्कुरुते पृथिवीश्वरम् ॥ १८ ॥ देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः । जनयेद्वसुधापालं निर्जितारातिमण्डलम् ॥ १९ ॥ यवनः--धने व्यये यदा लग्ने सप्तमे भवने ग्रहः । छत्रयोगस्तदा नीचकुलोऽपि नुपतिर्भवेत् ॥ २० ॥ त्रिभिश्छत्रं महाछनं पञ्चभिश्वातिसंज्ञकम् । सप्तभिस्तुर्यपङ्क्त्यन्तग्रहश्छत्रादिनिर्णयः ॥२१॥ इति राजयोगाध्यायः। अथ राजयोगभङ्गः। - अवर्गोत्तमगे लग्ने हैदृष्टे न भूपतिः । त्रिशङ्कभोदयोत्पातव्यतीपातैश्च जन्मतः ॥१॥ जीवेऽर्के गतिनीचस्थे त्रिभिरर्कगतैहैः । क्रूरे कर्मगते चैव कुम्भलग्ने च नो नृपः ॥ २ ॥ चन्द्रे परमनीचस्थे शुक्रेऽर्के वा न भूपतिः । केमद्रुमे च शून्येषु कण्टकेष्वर्कने तनौ ॥ ३ ॥ इति राजयोगभङ्गः। १ . °श्चाभितं । २ र्ययुक्तानाय । Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy