________________
श्रीशिवराजविनिर्मितोनृपवधो ज्ञेयस्त्वथ वा राजविग्रहः ॥३०॥ पक्षं पक्षार्धमर्केन्दुपरिवेष्टात्व(पाव)हर्निशम् । राजानमन्यं कुरुतो लोहितावृदयास्तगौ ॥ ३१ ॥ उदयास्तसमये भानुः स्थगितः शस्त्रसंनिभैः । घनैयुद्धं खरोष्ट्राद्यैर्दष्ट्रिरूपैर्भयपदः ॥ ३२ ॥ वराहः-कृष्णा रेखा सवितरि यदि हन्ति ततो नपं सचिवः । दिवसकृतः प्रतिसूर्यो जलकुदुदग्दक्षिणे स्थितोऽनिलकृत् ॥३३॥ उभयस्थः सलिलभयं नृपमुपरि हन्त्यधो जनहा ॥३४॥ वसिष्ठः-यग्रुपसूर्यकमस्यां संध्यायामर्घनाशनं प्रचुरम् । क्षितिपतिकलहः शीघं सलिलभयं वा भवेन्नूनम् ॥ ३५ ॥ वराहः-अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः । अविकृततनुवर्णचिह्नमज्जगति करोति शिवं दिवाकरः ॥ ३५॥
इति रविचारः।
अथ चन्द्रचारः। अमृतकिरणचारं खेटचारेषु सारं विपुलनिखिललोकानन्ददं सुन्दरीयम् । सदसदखिललोकाभोगदं यत्फलं तत्कथितविषमकालज्ञानदीपं प्रवच्मि ॥१॥ नित्यमधस्थस्येन्दो भिर्भानोः सितं भवत्यर्धम् । स्वच्छाययाऽन्यदसितं कुम्भस्येवाऽऽतपस्थस्य ॥ २ ॥ सलिलमये शशिनि रवेदींधितयो मूर्छितांस्तमो नैशम् । क्षपयन्ति दर्पणोदरविहिता इव मन्दिरस्यान्तः ॥ ३॥ त्यजतोऽर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम् । दिनकरवशात्तथेन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥ ४ ॥ प्रतिदिवसमेवमर्कात्स्थानविशेषेण शौक्ल्यपरिवृद्धिः । भवति शशिनोऽपराहे पश्चाद्भागे घटस्येव ॥५॥ नारदः-याम्यशङ्गोन्नतश्चन्द्रः शभदो मीनमेघयोः । सौम्योन्नतोदितः श्रेष्ठो नृयुङ्मकरयोस्तथा ॥ ६॥ समोऽक्षघटयोः कर्किचापयोः शरसंनिभः । चापवत्कीटहर्योस्तु शूलवत्तौलिकन्ययोः ॥ ७ ॥ विपरीतोदितश्चेन्दर्दुभिक्षकलहप्रदः । यथोक्तोऽभ्युदितश्चन्द्रः प्रतिमासं सुभिक्षकृत् ॥८॥ वराहः-उन्नतमीषच्छृङ्ग नौसंस्थाने विशालता चोक्ता । नाविकपीडा तस्मिन्भवति शिवं सर्वलोकस्य ॥ ९॥ अर्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन् । प्रीतिश्च निनिमित्तं मनुजपतीनां सुभिक्षं च ॥ १० ॥ दक्षिणविषाणमोन्नतं यदा दुष्टलाङ्गलाख्यं तत् । पाण्ड्यनरेशनिधनकुदुद्योगकरं बलानां च ॥ ११ ॥ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः
Aho! Shrutgyanam