________________
ज्योतिर्निबन्धः ।
चोत्पाताः ।। ८ ।। न पृथक्फलानि तेषां शिखिकीलकराहुदर्शनं यदि चेत् । तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ॥ ९ ॥ यस्मिन्यस्मिन्देशे दर्शनमायान्ति सूर्यविम्बस्थाः । तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम् ॥ १० ॥ क्षुतृण्म्लानशरीरा मुनयोऽप्युत्सृष्टधर्म सच्चरिताः । निर्मासवालहस्ताः कृच्छ्रेण यान्ति परदेशम् ।। ११ ।। तस्कर विलुप्तचित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः । सन्तेभ्छन्नशरीराः शोकोद्भव वाष्परूद्धदृशः || १२ || क्षामा जुगुप्समानाः स्वपतिपरचक्रपीडिता मनुजाः । स्वपतिचरितं कर्म च पुरा कृतं प्रब्रुवन्त्यन्ये ॥ १३ ॥ गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं क्वचित्कचिज्जायते सस्यम् ॥ १४ ॥ नारदः - दण्डाकारे कबन्धे वा ध्वाङ्क्षाकारेऽथ कीलके । दृष्टेऽर्कमण्डले व्याधिभीतिचौरार्घ ( थे ) नाशनम् ॥ १५ ॥ वराहः–दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात्कबन्धसंस्थाने । ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं की कर्कस्थे ॥ १६ ॥ नारद::- छत्रध्वजपताकाद्यैराकारैस्तिमिरैर्घनैः । रविमण्डलगेधूमस्फुलिङ्गैर्जननाशनम् ॥ १७ ॥ सितरक्तपीतकृष्णैर्विमादीनामनिष्टदम् । हन्ति द्वित्रिचतुर्भिर्वा राजान्यत्वं जनक्षयम् ॥ १८ ॥ ऊर्ध्वर्भानुकरेस्ताभ्रैर्नाशयन्ति ( शं याति ) चमूपतिम् ( तिः) । पीतैर्नृपसुतं (तः ) श्वेतैः पुरोधावित्रितैर्जनैः ( नाः ) । १९ ॥ धूम्रैर्नृपं पिशङ्गेय जलदोऽधोमुखैः सदा । उदयास्तमये काले स्वास्थ्यं तैः पाण्डुसंनिभैः ॥ २० ॥ भास्करस्ताम्रसंकाशः शिशिरे कपिलोऽपि वा । कुङ्कुमाभो वसन्तत कपिलो वाऽपि शस्यते ।। २१ ।। आपाण्डुरः स्वर्णवर्णो ग्रीष्मे चित्रो जलागमे । पद्मोदराभः शरदि हेमन्ते लोहितच्छविः ।। २२ ।। हेमन्ते प्रावृषि ग्रीष्मे रोगानावृष्टिभीतिकृत् । पीताभ: कृष्णवर्णो लोहितस्तु यथाक्रमात् ॥ २३ ॥ इन्द्रचापार्धमूर्तिद्भानुर्भूपविरोधकृत् । मयूरपत्रसंकाशो द्वादशाब्दं न वर्षति ॥ २४ ॥ शशरक्तनिभे भानौ सङ्ग्रामो न चिराद्भवेत् । चन्द्रस्य सदृशो यत्र चान्यं राजानमादिशेत् ।। २५ ।। वराहः - ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् । हेमन्ते पतिोऽर्कः करोति नचिरेण रोगभयम् ।। २६ ॥ प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् । वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः ॥ २७ ॥ नारदः - अर्कै श्यामे कीटभयं भस्माभे शस्त्रतो भयम् । छिद्रेऽर्कमण्डले दृष्टे तदा चोरार्धनाशनम् ॥ २८ ॥ घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः । छत्राकृतिर्देशभयं खण्डभानुर्नृपान्तकृत् ॥ २९ ॥ उदयास्तमये भानोर्विद्युदुल्काशनिर्यदि । तदा
१ ख 'न्तः सन्नश ।
Aho! Shrutgyanam