________________
२९२
श्रीशिवराजविनिर्मितोततः । हस्तितः खरतो मृत्युमन्दे स्यान्मृत्युभावगे ॥ १६॥ चरभे परदेशे स्यान्मृत्युभे स्वगृहे स्थिरे । द्वयङ्ग पथि मृतिश्थाथ संग्रहे भावजं फलम् ॥१७॥ खेऽर्के सुखे कुजे मृत्युभवेच्छैलाग्रपातजः । धीधर्मस्थौ शुभादृष्टौ क्रूरौ चेद्वन्धनान्मतिः ॥ १८ ॥ कन्यास्थौ पापदृष्टों चेत्सूर्येन्दू स्वजनान्मृतिः । पापयोर्मध्यगे चन्द्रे कुजसंस्थेऽग्निशस्त्रतः ॥ १९ ॥ मृत्युः सुखे कुजेऽके वा खे शनौ शूलभेदतः । भौमे क्षीणेन्दु दृष्टेऽस्ते यन्त्रोत्पीडनया मृतिः ॥ २० ॥
अथ गतिज्ञानम् । । पापत्र्यंशे मृत्युभावे वह्निना दह्यते शवम् । शुभयुक्तक्षिते तस्मिन्दुक्काणे शोष्यते च तत् ॥ १ ॥ सर्पव्यंशे शवं गृध्रशृगालाद्यैस्तु भुज्यते । शुभत्र्यंशे क्लिश्यते तत्पापयुक्ते तु शोप्यते ॥ २॥ शुक्रेन्दू पितृलोकेशौ शनिज्ञौ नरकाधिपौ । तिर्यग्लोकस्य सूर्यारी स्वर्गस्याधिपतिगुरुः ॥ ३ ॥ रवीन्द्रोर्बलवान्यस्य दृक्काणे तस्य लोकतः । आगतः प्राग्जनों चासौ तुङ्गादिस्थस्य तत्समः ॥ ४ ॥ मृत्युशात्रवभावस्थात्रिंशयोर्यो बली जनौ । तन्नाथस्य व्रजेल्लोकं मृत्योर्जन्तुरसंशयम् ॥ ५॥ केन्द्रारिमृत्युगो जीवः स्वोच्चस्थो यस्य जन्मनि । शेषा ग्रहाश्चेदबलास्तस्य मोक्षो मृतस्य हि ॥ ६ ॥ चक्रावसानलग्नस्थो गुरुः शुभनवांशगः। यस्य जन्मान शेषाश्चेदवलाः स विमुच्यते ॥ ७ ॥ एवमुक्तास्तु ये योगाः स्वर्गादिगतिकारकाः । मत्युकालेऽपि जन्तोस्ते तथा स्युस्तत्फलप्रदाः॥८॥
अथ भाग्यचिन्ता । लग्नाद्विधोर्वा नवमं भाग्यस्थानं भवेत्ततः । भाग्यं हि चिन्त्यते नृणां तत्तत्पतिबलाबलात् ॥ १॥ स्वस्वामिना युक्तदृष्टं स्वदेशे फलदायकम् । तदन्ययुक्तदृष्टं तत्परदेशे फलप्रदम् ॥ २ ॥ गुरुभोग्ये भवेन्मन्त्री महाभाग्योऽखिले. क्षिते । अबलेऽपि शुभे खेटे भाग्यस्थे धार्मिकोत्तमः ॥ ३ ॥ शनिः कुजोऽथ वा द्वौ वा भाग्ये पूर्णेन्दुसंयुते । सर्वे वा स्वोच्चगे भाग्ये भवन्ति नृपजन्मनि ॥ ४ ॥ भाग्ये रवीन्द्वोः स्वल्पायुः कुजेन्द्रोर्मातुरन्तकृत् । हीनः पितृभ्यां व्रणितो द्वेष्यो हिंस्रः कुजेन्द्विनैः ॥ ५ ॥ गर्गः-अदृश्येऽर्धे भाग्यनाथे गते जन्म यदा भवेत् । लग्नपे च विशेषेण यावज्जीवं समृद्धिमान् ॥ ६॥
अथ कर्मचिन्ता। अर्थाप्तिः पितृतो मातुः शत्रोमित्रात्सहोत्थतः । स्त्रिया भृत्यादिनायैः स्याल्लग्नेन्द्रोः कर्मगैः क्रमात् ॥ १॥ यावन्तो लग्नतश्चन्द्राद्ग्रहाः कर्मस्थितास्तु ते ।
५१. शुभदृष्टौ ।
Aho! Shrutgyanam