SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९० श्रीशिवराजविनिर्मितोदशेशो बलवाञ्छुभयोगेक्षणादिभिः । दशेशे विवले चात्र क्लेशाय न तु मृत्यवे ॥ ६॥ इत्यन्तर्दशाफलम् । अथ भावविचारः। जातकतिलके-स्वस्वामिना सुसंदृष्टो भावः सर्वोऽपि सत्कलः । क्रूरेक्षितः कष्टफलो निष्फलो दृष्टिवर्जितः॥१॥ सर्वग्रहेक्षितो भावो ग्रहो वा मङ्गलपदः। क्षमः स्यात्स्वफलं दातुं लग्नेन्दू राज्यदौ तथा ।। २ ॥ पद्धतौ-पुष्णन्ति सौम्या रिपुराशिवर्ज घ्नन्तीतरेऽष्टव्ययशत्रुवर्जम् । सूर्यादिका नात्र मृतिव्ययस्थाः पापाः प्रदुष्टा इतरे तु किंचित् ॥३॥ उच्चस्थः स्वगृहस्थो वा मन्दो राज्यप्रदो भवेत् । वृषकर्कटमेषस्थो राहुरारोग्यकृत्ततः ॥ ४ ॥ लग्नगे कर्किगे चन्द्रे धनी स्यादन्यराशिषु । विकलाङ्गो जडो दीनः कृष्णपक्षे विशेषतः ॥ ५ ॥ अथ धनचिन्ता। शुभा धनस्थिताः कुर्युर्वाग्मिनं मिष्टभोजनम् । क्रूराः प्रोक्तविरोधेन कदनं बहुभाषिणम् ॥ १॥ अथ सहजचिन्ता। सहजे सर्वपापाढ्ये पापः भ्रातरो न हि । नाशयेत्सहजं जातं मन्दो भीमेक्षितोऽनुजम् ॥ १॥ नवांशा भ्रातृभावस्था यावन्तोऽब्जकुजेक्षिताः । तत्संख्याः सहजा ज्ञेया दृष्टा अन्यैस्तु योषितः ॥ २॥ अथ सुहृश्चिन्ता । जीवेक्षिते शुभं शुक्रेऽजारदृष्टे सुहृत्क्षयः । सुखे क्रूरयुते मातुः क्लेशकृत्सुशुभे शुभम् ॥१॥ अथ सुलचिन्ता। पुत्रभावोपभुक्तांशतुल्याः संख्याः शुभांशके । द्विघ्नाः शुभेक्षिते क्लिष्टाः पापाशे पापवीक्षिते ॥ १॥ ताजिकतिलके -पापः पश्चमे राशौ पापैवेलिभिरन्विते । सौम्यग्रहैरसंदृष्टे पुत्राभावो भवेन्नृणाम् ॥ २ ॥ पुत्रमावे कुजः पुत्रं जातं जातं विनाश येत । गुरुशुक्रेक्षितस्त्वाचं न च सर्वग्रहेक्षितः ॥ ३॥ लग्नादशमगे चन्द्रे भार्गवे सप्तमे स्थिते । अशुभेषु सुखस्थेषु वंशच्छेदोऽस्य जायते ॥ ४ ॥ १ क. °म् । मूर्तादि य. म् । मू गदि । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy