________________
ज्योतिर्निवन्धः।
२८९
यस्य ग्रहस्योक्तं तत्तयोज्यं दशास्वपि ॥ ४ ॥ दशायां सबलस्यार्थलाभमारोग्यमादिशेत् । विबलस्य रुजं हानि मिश्रं समबलस्य च ॥ ५ ॥ जातकतिलकेयस्य ग्रहस्य यदव्यं कर्माऽऽजीवं च यस्य यत् । अभावदृष्टियोगोत्थं फलं तत्स्वदशासु च ॥ ६ ॥ दिग्बलायोनिजं देशं नीत्वा दद्याद्धनं सुखम् । नीचस्थः स्वप्रचिन्तायै राज्यायफलपाककृत् ॥ ७ ॥ बालभावे पितुः स्यातां लाभालाभौ दशोद्भवौ । सुखक्लेशौ स्वयं भुङ्क्ते तारुण्ये त्वखिलं फलम् ॥ ८ ॥
इति दशाफलपाकनिर्देशः ।
अथान्तर्दशाविभागः। दशाधिपत्रिकोणस्थस्तृतीयांशं तथाविधम् । चतुरस्रगतः पादं सप्तमः सप्तमांशकम् ॥ १॥ ते चेदन्तर्दशादाया बहवोऽप्येकभावगाः । तद्भावनिकटः पूर्व दद्यात्ता दूरगस्तथा ॥२॥ एवं लग्नदशायां च लग्नमन्तर्दशा निजम् । दद्याद्ग्रहदशायां च दद्युरन्तर्दशा ग्रहाः ॥३॥ न्यसेद्रूपं दशेशस्य ततस्त्वन्तर्दशा भवेत् । स्वान्स्वानंशान्क्रमेणोक्तान्यथालाभं च वक्ति सः ॥ ४॥ अन्योन्यच्छेदघातोत्यो गुणकाख्यः प्रजायते । गुणकोऽसौ पृथक्छदर्भक्तो लब्धैक्यजो हरः॥ ५॥ दशाप्रमाणं वर्षाद्यं गुणकघ्नं हरोद्धृतम् । लब्धं दशापतेराया वर्षाद्यन्तर्दशा भवेत् ॥ ६ ॥ तदेकादिगानां सा पृथगन्तर्दशांऽशकैः । विहिताऽन्तर्दशायाः स्युर्मानान्यंशक्रमात्ततः ॥ ७॥ दशाधिपस्यैकगृहे बाणेन्द्रशान्तरस्थितः । तदन्तेऽन्यान्तर्दशाभूतं तद्दशायां च तद्बलम् ॥ ८ ॥
इत्यन्तर्दशाविभागः।
अथान्तर्दशाफलम् । दशेशान्तर्दशानाथमित्रारित्वाच्छुभाशुभम् । फलं तयोबलवतः प्रौढमन्यस्य हीयते ॥ १॥ नष्टस्यान्तर्दशा दैन्यं कुर्यानीचस्य नीचताम् । लग्नजन्मेशयोः शत्रोः शत्रुभीतिं सुखक्षयम् ॥ २॥ क्रूरस्यान्तर्दशा क्रूरदशायां विशती नृणाम् । तयोर्विशेषाच्छत्रुत्वे प्राणसंदेहकारिणी ॥ ३ ॥ मन्दारान्तर्दशे मृत्यौ दशयोः कुजमन्दयोः । परस्परं त्रिकोणस्थौ तौ चेत्तत्र विशेषतः ॥ ४ ॥ मत्युदाऽन्तर्दशा लगदशायां लग्नपारिजा। रिष्टं पूर्ण समांशत्वे दशेशान्तर्दशेशयोः ॥ ५ ॥ अन्त
१ य. स्वपतीताये । २ क. 'स्थस्तु ।
३७
Aho ! Shrutgyanam