________________
२८२
श्रीशिवराजविनिर्मितो
मायां समाद्वयात् ॥ ३२ ॥ लग्नान्मन्दाररविभिः शत्रुभे सप्तमे विधौ । क्षीणेन दृष्टे गुरुणा मृत्युवस्तु सप्तभिः ॥ ३३ ॥ मृगालिगोऽसितो ज्ञो वा सुखस्थोऽसृग्यमेक्षितः । मृत्युरन्ध्राधिपो वाऽस्ते क्षीणेऽब्जे पापलग्नगे ॥ ३४ ॥ पापे लग्नाधिपेऽब्जाशे क्रूरैदृष्टे व्यये विधौ । मृत्यू राही तनौ दृश्यः शुभैः पापैरदृश्यगैः ॥ ३५॥ सुखेऽब्जे कर्मगैः पापैः खेऽब्जे वा सुखगैः खलः । शुभैरापोक्तिमैः केन्द्रश्चन्द्रपापयुतमृतिः ॥ ३६ ॥ होराप्रदीपे-मासैः षोडशभिईन्यात्स्वयंशे लग्नगोऽर्कजः । अब्दद्वादशभिः पादृष्टो विगतरश्मिभिः ॥ ३७॥ मन्दो लग्ने स्वांशे यावति च प्रथमतः शुभायोगे । तावद्भिरेव वर्मत्युकरो भवति जातस्य ॥ ३८ ॥ कर्मस्मरजलतनुगाः क्रूराः सौम्यावलोकनवियुक्ताः । मासै
दशसंख्यैः कुर्वन्ति शिशुं विगतजीवम् ॥ ३९ ॥ सारावल्यां- राहुः सप्तमभवने शशिसूर्यनिरीक्षितो न शुभदृष्टः । दशभिर्दाभ्यां सहितैरन्दैर्जातं तु नाशयति ॥ ४० ॥ क्षीणं यदा शशाङ्क पश्येद्राहुः समागतं क्रूरैः । मारयति तदा दिवसैनिाजैः कतिपयैरेव ॥ ४१ ॥ राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः । वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः ॥ ४२ ॥ होरामकरन्दे-आदावभ्युदितः केतुर्निर्घातोल्कानिला अनु । रौद्रे सापे मुहूर्ते वा जातो याति यमालयम् ॥ ४३ ॥ सारावल्पां-घटसिंहवृश्चिकोदयकृतस्थितिजीवितं हरति राहुः । पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वर्षेः ॥ ४४ ॥ होरामकरन्दे-नागनन्दयमलनयनः पक्षदः समीरः क्षोण्या वेदैर्दहननयन गचन्द्रः खदत्रैः । मेषादीनां शशिधरकरैजन्मकालेऽब्जयुक्तैर्भागैर्दिभिर्भवति मरणं वत्सरैर्भागतुल्यैः ।। ८ । ९ । २२ । २२ । ५।१।४। २३ । १८ । २० । २१ । १० ॥४५॥ यवनः-द्वादशस्थो यदा सौरिजन्मसंस्थश्च भूसुतः। चतुर्थः सैंहिकेयश्चेद्दश मासान्न जीवति ॥ ४६ ॥ द्वादशस्थो रवि मस्तनुस्थौ शशिसूर्यजौ । सौम्यैनं दृश्यते लग्नं स याति यममन्दिरम् ॥ ४७ ॥ षष्ठेऽष्टमे तनौ वाऽपि भौमो बुधयुतो यदि । तस्करक्रूरकर्मत्वात्वञ्जपादं करोति वा ॥४८॥ लग्नभावे यदा राहुः केन्द्र स्यादणुरत्रिजः । शिशोर्मृत्युर्भवेत्सद्यः क्रूरदृष्टो विशेषतः ॥ ४९ ॥ पातालस्थो यदा राहुश्चन्द्रः षष्ठोऽष्टमोऽपि वा । पापदृष्टो विशेषेण सद्यः पाणहरः शिशोः ॥ ५० ॥ जन्मलग्ने यदा राहुः षष्ठो भवति चन्द्रमाः । जातो मृत्युमवामोति क्रूरदृष्टयाऽपमत्युना ॥ ५१ ॥ शनिक्षेत्रे यदा भानुर्भानुक्षेत्रे यदा शनिः । बालो विंशतिमे वर्षे म्रियते दुष्टभावगौ ॥ ५२ ॥ षष्ठेऽष्टमे वा शीतांशुबुंधयुक्तो यदा भवेत् । अश्वदोषाद्भवेन्मृत्युर्यद्वा व्याघ्रविदारणात् ॥ ५३ ॥ दशमार्किगृहे भानुर्माना साध शिशोमतिः । भौमे
Aho! Shrutgyanam