________________
ज्योतिर्निबन्धः।
२८३ शत्रुगृहे खस्थे पित्रा सार्धं तथा: मृतिः ॥ ५४ ॥ बादरायणः-वक्रशनैश्चरमध्ये होरायुक्तो निशाकरो हन्यात् । जननीमपत्यसहितां सौम्यैर्न निरीक्षितः सद्यः ॥ ५५ ॥ पापग्रहमध्यगतश्चन्द्रो होरागतोऽष्टमे सूर्यः । शस्त्रविदारितगर्भस्तत्र विशल्या भवेन्नारी ॥ ५६ ॥ पश्यन्ति यदा सौम्या होरास्थं पापमध्यगं चन्द्रम् । न भवति मातविनाशो गर्भविनाशो न संदेहः ॥ ५७ ॥ प्रसवसमयेऽष्टमस्थो निशाकरः पापवीक्षितः क्षीणः । गर्भविपत्तिं कुर्यात्सक्रूरो मातरं हन्यात् ॥ ५८ ॥ क्षीणस्तु वक्रसहितो होरायां चन्द्रमा भवति । जामित्रे वा युगपत्सद्यो जातस्य मरणकारी ॥ ५९ ॥ होरायां वा निधने रिष्फे वा क्रूरखेचराः सर्वे । क्षीणनिशाकरदृष्टाः सद्यो निधनं शिशोः कुर्युः ॥ ६० ॥ पञ्चमनवमव्ययगे निधने वा सप्तमे सहिताः। रुधिरनिशाकरसौराः सौम्यस्त्यक्ताः शिशु हन्यः॥६॥ सूर्यादष्टमराशौ भवतः शनिलोहितौ प्रसवकाले । सौम्यदृष्टौ मरणं सद्यः कुर्यातां पितुर्योरम् ॥ ६२ ॥ वृद्धयवनः-पापग्रहावेक्षणसंगमाद्यैश्चन्द्रोऽदितः सद्भिरवीक्षितश्च । करोति मातुः स्तनपानहानि प्रीणाति राशीश्वरजः स्वभावैः ॥६३ ॥ सारावल्यां-तीव्रफलराजयोगा यवनाधैर्ये विनिर्मितास्तेषु । वक्तव्यं दैवविदा खलकुलजातस्य रिष्टमिति ॥ ६४ ॥ लग्नाधिपे पापयुतेऽस्तसंस्थे राहुश्च केन्द्रे मृतिमेति तद्वत् । क्रूरैः सुतस्थैरपि केन्द्रसंस्थैम्रियेत जातः सगदोऽथवा स्यात् ॥ ६५ ॥ पापातियुक्तदृष्टोऽपि पापः पाके मृतिप्रदः । अतिनीचारिसंस्थोऽपि शुभदृष्टिविवर्जितः ॥ ६६ ॥ लग्नस्थितो भावसमोऽरिदृष्टः पापोऽष्टषष्ठोऽपि निहन्ति पाके । पोपेऽष्टमे स्याद्विधवाऽपि नारी द्वित्रिव्ययास्तोपगतैश्च दुष्टैः ॥ ६७ ॥ जातकतिलके-योगकरणखेटेषु वली जन्मनि यद्गृहे । तद्गतोऽब्जो बली हन्ति पापदृष्टोऽब्ज(ष्टस्तु)मध्यमः ॥ ६८ ॥ लग्नं वा जन्मभं चन्द्रः प्राप्तो हन्ति तथाविधः । अनुक्तविधियोगेषु प्रौढेऽप्येष विधिर्मषा ॥ ६९ ॥ शेषेष्वनुक्तविधिषु चिरात्तत्तद्दशासु वा । विबलस्य सपापस्य दशायां वा मतिभवेत् ॥ ७० ॥ अर्कश्चन्द्रः कुजः सौरिलग्ने तिष्ठति पञ्चमे । पितरं मातरं हन्ति भ्रातरं च शिशु क्रमात् ॥ ७१ ॥ ताताम्बिकामातुलसोदराश्च मातामही मातृपिता च सूनुः । सूर्यादिखेटाः खलु पञ्चमस्था निघ्नन्ति सर्वे क्रमशः प्रसूतौ ॥ ७२ ॥
इत्यरिष्टाध्यायः।
१ घ. पाकेऽ।
Aho! Shrutgyanam