SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । २७९ शुभयुते दृष्टे च लक्ष्माऽऽदिशेत्स्वक्षशस्थिरसंयुते तु सहजः स्यादन्यथाऽऽगन्तुकः । मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे ज्ञपापे कुजः सूर्ये काष्ठवतुष्पदादणुविधौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ २ ॥ जातकतिल के - - यदा ज्ञाद्यास्त्रयः खेटाः शुभाः क्रूराश्च तेष्वपि । यो वली स्वदशायां स तिष्ठेत्पापो व्रणादिकृत् ||३|| लग्नात्षष्ठो व्रणस्तद्वद्व्रणकृच्चाथ षष्ठकम् । कालाङ्गरीत्या यत्राङ्गे तत्र वा तद्विघो व्रणः ॥ ४ ॥ शुभस्तु षष्ठोऽसौ कुर्याद्वा तिलकं मशम् । लक्ष्मकृच्छुभयुक्तथेच्छुभाश्वाप्यत्र दुष्फलाः ॥ ५ ॥ कालपुरुषतुल्येऽङ्गे यत्र स्यातां च संगतौ । चन्द्राक तत्र लक्ष्मापि मशकाद्यमिहाऽऽदिशेत् || ६ || इति व्रणादिज्ञानम् | अथानिष्टाध्यायः । होरामकरन्दे–वंशोत्सादकरः शशाङ्कभृगुजः क्रूरैः स्वसप्ताम्बुगैः शिल्पी केन्द्रगताfर्कणा बुधयुतस्यंशे तनौ वीक्षिते । अन्त्ये देवगुरौ दिनेश्वरसुतस्यांशे च दासीसुतो नीचः कामगयोः खरांशुशशिनोः सौरेण संदृष्टयोः ॥ १ ॥ सारावल्याम्-उदये दिनकरपुत्रे मन्दे त्रिकोणे कुजे च सोन्मादः । क्षीणे शशिनि ससौरे जीवे वा व्ययगृहे जातः ॥ २ ॥ जातक तिल के - चन्द्रेऽलिकर्कटांशस्थे सपापे गुह्यरुग्भवेत् । हीनाङ्गो वेशिगे मन्दे कर्मगेऽब्जे कुजेऽस्तगे || ३ || मन्दारयुतदृष्टेऽब्जे चापमध्यनवांशगे । मृगवीनाजकर्येशे स्थिते वा कुष्ठवान्भवेत् ॥ ४ ॥ गर्ग:- क्रूरयुक्तेक्षितो लग्नात्पञ्चमो नवमोऽथवा । गोकलिमृगाख्यश्वेद्राशिः स्यात्कुष्टवांस्तदा || ५ || जातक तिलके - पापयोर्मध्यगे चन्द्रे रखौ मकरराशिगे । श्वासगुल्मक्षयप्लीहविद्रधिव्याधिपीडितः ॥ ६ ॥ अन्योन्यक्षेत्रगौ स्यातामथवा भवनांशगौ | चन्द्राक चेता जातः क्षयरोगी भवेन्नरः || ७ || व्ययारिधनमृत्युस्थाः स्वेच्छयाऽऽकिंकुजेन्द्विनाः । अन्धं कुर्युर्बली तेषु यस्तत्प्रकृतिदोषतः ॥ ८ ॥ धीधर्मायतृतीयस्थाः पापाः सौम्यारवीक्षिताः । कर्णघातक रास्ते तु द्यूनस्था दन्तदूषिणः ॥ ९ ॥ सारावल्यांमध्ये पापग्रहयोश्चन्द्रे मदनस्थितेऽर्कजे जन्तोः । श्वासक्षयविद्रधिना गुल्मलीहादिपीडितस्य भवः ॥ १० ॥ बृहज्जातके – उदयत्युडुपेऽसुरास्यगे स पिशाचोऽशुभ योत्रिकोणयोः । सोपप्लवमण्डले रवौ चेदुदयस्थे नयनापवर्जितः ॥ ११ ॥ होरामकरन्दे – मन्दारवर्गे भृगुस्तसंस्थे कुजा किं परदारगः स्यात् । तथैव सेन्द्र कुजसूर्यजौ चेज्जा १. 'शोपाद' । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy