SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीशिवराजविनिर्मितो--- अथेन्द्रचापलक्षणम् । नानावर्णाशवो भानोः सा वायुविघट्टिताः । सद्वयोनि चापसंस्थानमिन्द्रचापं प्रचक्षते ॥ १ ॥ अथवा शेषनागेन्द्रदीर्घनिश्वास संभवम् । विदिक्षुजं दिक्षुजं च तद्दिङ्नृपविनाशनम् || २ || पीतपाटलनीलैव वह्निशस्त्रास्त्रभीतिदम् । वृक्षजं व्याधिजं चापं भूमिजं सस्यनाशनम् || ३ || अवृष्टिदं जनोद्भूतं वल्मीके युद्धभीतिदम् । अवृष्टौ वृष्टिदं त्वैन्द्रयां दिशि दृष्टाव वृष्टिदम् ॥ ४ ॥ सदैव वृष्टिदं पचादिशोरितरयोस्तथा । रात्राविन्द्रधनुः प्राच्यां नृपहानिर्भवेद्यदि ॥ ५ ॥ याभ्यां सेनापतिं हन्ति पश्चिमे नायकोत्तमम् । मन्त्रिणं सौम्यदिग्भागे सचिवं कोणसंभवम् || ६ || रात्राविन्द्रधनुः शुक्रवर्णाभं विमपूर्वकम् । हन्ति यदिग्भवं स्पष्टं तद्दिगशिनृपोत्तमम् ॥ ७ ॥ अवनगाढमच्छिन्नं प्रतिकूलं धनुर्द्वयम् । नृपान्तकयदि भवेदानुकूल्यं च तच्छुभम् ॥ ८ ॥ इतीन्द्रचापलक्षणम् । २६४ अथ गन्धर्वनगरलक्षणम् । नारद: – गन्धर्वनगरं दिक्षु दृश्यतेऽनिष्टदं क्रमात् । भूभुजां च चमूनाथसेनापतिपुरोधसाम् || १ || सितरक्तपीतकृष्णं विप्रादीनामनिष्टदम् । रात्रौ गन्धर्वनगरं धराधीशविनाशनम् ॥ २ ॥ इन्द्रचापानिधूमाभं सर्वेषामशुभप्रदम् । चित्रवर्णं चित्ररूपमाकारध्वजतोरणम् । दृश्यते चेन्महायुद्धमन्योन्यं धरणीभुजाम् ॥ ३ ॥ इति गन्धर्वनगरलक्षणम् । अथ प्रतिसूर्यलक्षणम् । नारद: - प्रतिसूर्यः सूर्यनिभः स्निग्धः पार्श्वे शुभप्रदः । वैदूर्यसदृशः स्वच्छः शुक्लो वाऽपि सुभिक्षकृत् || १ || पीताभी व्याधिदः कृष्णो मृत्युदो युद्धदोऽरुणः । माला चेत्प्रतिसूर्याणां शश्वचोरभयप्रदा ॥ २ ॥ जलदोदकुमतिसूर्यो भानोर्याम्येऽनिलप्रदः । उभयस्थोऽम्बुभयदो नृपहोपयेधो नृहा || ३ || यदा भवन्ति तीक्ष्णांशोः प्रतिसूर्याः समन्ततः । जगद्विनाशमाझोति तथा शीतद्युतेरपि ॥ ४ ॥ इति प्रतिसूर्यलक्षणम् । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy