________________
२६०
श्रीशिवराजविनिर्मितो
मग्ने अङ्गिरास्तथा । अग्निर्ज्योतिस्तृतीया तु चतुर्थी त्वामग्ने तथा ॥ १० ॥ प्रथमनिर्मूर्धातु होमं पूर्व तु कारयेत् । आज्यहोमं विधायैवं चरुहोमं ततः परम्॥ ११ ॥ कफे(?) स्वाहेति वाऽऽद्यं तु आधायेति द्वितीयकम् । तृतीयं हव्यवाहति चतुर्थ जातवेदसे || १२ || ततः स्विष्टकृतं दद्यात्पश्चात्कर्म समापयेत् । अभिषेकस्ततः कार्यो मन्त्रैर्वरुणदेवतैः ॥ १३ ॥ शान्त्यध्यायं पठेत्पश्चादभिषिञ्श्चेत्ततो नृपम् । तत दक्षिणां दद्यात्कृष्णां गां काञ्चनं महीम् । तिलाः कृष्णाः मदातव्या भृंगो वचनं तथा ॥ १४ ॥
इत्यग्निशान्तिः । )
अथ शिथिलीजननशान्तिः ।
नारद: --- उत्पाता निखिला नृणामगम्यागमसूचकाः । तथाऽपि सद्यः फलद शिथिलीजननं महत् ॥ १ ॥ शिथिलीजनने ग्रामे सेतौ वा देवतालये । तत्फलं ग्रामपस्यैव सीनि सीमाधिपस्य च ॥ २ ॥ शिथिलीजनने हानि: सर्वस्थानेषु दिक्षु च । तद्दोषप्रशमायैव शान्तिकर्म समाचरेत् ॥ ३ ॥ स्वर्णेन मृत्युप्रतिमां कृत्वा वित्तानुसारतः । रक्तवर्ण यमं दण्डधरं महिषवाहनम् || ४ || नववस्त्रेण संवेष्ट्य तण्डुलोपरि पूजयेत् । तल्लिङ्गेन्न च मन्त्रेण नैवेद्यान्तं यथाविधि ॥ ५ ॥ पूर्णकुम्भं तदैशान्यां रक्तवस्त्रेण वेष्टितम् । पञ्चत्वक्पल्लवैर्युक्तं जलमन्त्रैः समर्चयेत् || ६ || अग्निसंस्थापनं प्राच्यां स्वगृह्येोक्तविधानतः । प्रत्येकमष्टोत्तरशतमघोरेणैव होमयेत् ।। ७ ।। मन्त्रेण समिदाज्यान्नैः शेषं पूर्ववदाचरेत् । द्विजाय प्रतिमां दद्यात्सर्वदोषापनुत्तये || ८ || जलमन्त्रेण संप्रोक्ष्य तत्स्थानं कुम्भवारिभिः । एवं यः कुरुते सम्यक्स तद्दोषात्प्रमुच्यते ॥ ९ ॥
इति शिथिलीजननशान्तिः ।
अथेन्द्रलुप्तशान्तिः ।
श्रीरनिर्वन्धुनाशश्च वित्तहानिर्महद्यशः । बन्धुलाभः पुत्रहानिः स्त्रीचिन्ता महती गदः ॥ १ ॥ पूर्वादीनि फलान्येषामिन्द्रलुप्ते च मस्तके | दन्तच्छेदे काकहृते सरदीपतनेऽपि च ॥ २ ॥ पञ्चत्वम्पल्लवस्वर्णपञ्चामृतफलोदकैः । अभ्यङ्गमन्त्रितैर्मन्त्रैः स्नानाद्दोषं विमुञ्चति || ३ || एवमेवाग्निदाहेपि मस्तके मल
Aho! Shrutgyanam