________________
ज्योतिर्निबन्धः।
२५९ अथ मधुबालशान्तिः। मधुनालं गृहे यस्य दृश्यते पुरुषस्य च । मरणं तस्य जानीयात्कुलान्तो वा भवेदतः ॥ १॥ तत्र शान्तिः प्रकर्तव्या साध्वी वै वायुदैवता । वायुं च पूजयेत्तत्र ऋग्जपं तु यथायथम् ॥ २॥ होमं तत्र प्रकुर्वीत श्रपयित्वा तथा हविः । अभिषेकं प्रकुर्वीत शान्त्यध्यायेन सर्वदा ॥ ३ ॥ ततो वह्नि प्रतिष्ठाप्य चरुश्रपणपूर्वकम् । आदौ च चक्षुषी दद्यात्पश्चान्मधुमतीस्तथा ॥४॥ वसन्तेन मधुना च षडचं चरुणा जपेत् । ततः स्विष्टकृतं दद्यात्पश्चात्कमे समापयेत् ॥५॥ दानानि तत्र दद्याच मधुकुम्भं सदक्षिणम् । क्षोमवस्त्रं प्रदातव्यं तिलांश्चैव क्रमेण तु । ब्राह्मणान्भोजयेत्पश्चादेवं कर्म समापयेत् ॥ ६॥
इति मधुजालशान्तिः।
अथानशान्तिः। एवमन्नस्य विकृतौ शान्ति कृत्वा प्रयत्नतः । तदा सर्वमवाप्नोति आरण्यं प्राप्नुयात्तु यः ॥१॥ अनिष्टं नाशमायाति बैन्द्रीशान्तिविधानतः । उपसर्गाः क्षयं यान्ति शक्रस्य प्रीणनात्ततः ॥ २॥
इत्यन्नशान्तिः।
अथानिशान्तिः। भृगुरुवाच-क्षि(हि)माग्निर्दहते राष्ट्र तत्र शान्ति च कारयेत् । वक्ष्यमाणविधानेन त्वं तदेकमनाः शृणु ॥ १ ॥ भवनाधारदहने कुम्भप्रज्वलने तथा । अङ्गवस्त्रस्य दहने देशभङ्गं समादिशेत् ।। २ ॥ पैशाचाग्निश्चैव सप्तसप्ताचिर्मेषवाहनः । वेदोक्तेनैव मन्त्रेण ह्यग्न्युत्तारं तु कारयेत् ॥ ३॥ होमकुण्डा [च्च] पूर्वे तु स्थायो वै स्थण्डिले शुभे । रक्तवस्त्रसमाच्छन्नो मन्त्रेणाग्निमेषेण तु ॥ ४ ॥ कलशस्तत्र संस्थाप्यः सर्वौषधिसमन्वितः । जपस्तत्र प्रकर्तव्यो रुद्रजाप्यपुरःसरः।।५।। त्वामने वय[ ]मग्ने त्वंपुरीष्यति(?)। इत्यपि मध्वायज्ञेनरक्षसो तनूपाअग्ने आसि(?) ॥६॥ अथातो वैश्वानरं च ब्राह्मणं च जपेत्ततः। सोमाय रुद्राद्वले द्यावापृथिवी अथर्वणं जपेत् ॥ ७ ॥ जपान्ते सुसमिद्धं च वह्निं कृत्वा यथाक्रमम् । होमस्तत्र प्रकर्तव्यो हविर्धानपुरःसरः ।। ८ ॥ लोहितैस्तण्डुलैश्चैव चरुश्रपणपूर्वकम् । आदौ चाग्निमुखे दद्यात्पश्चाच्चाऽऽज्याहुतीर्ददेत् ॥ ९ ॥ उशिक्पावको अरतित्वा
Aho! Shrutgyanam