________________
२५८
श्रीशिवराजविनिर्मितोमङ्गलम् ॥ ९॥ प्राकारे च पुरद्वारे प्रासादायेषु वीथिषु । तत्फलं ग्रामपस्यैवं सीम्नि सीमाधिपस्य च । शान्तिकाखिलं कार्य पूर्वोक्तेन क्रमेण तु ॥ १० ॥
इति कपोतशान्तिः।
(+ अथोलूकादिशान्तिः। उलूक [ इष्टो ] दृष्टो नेष्टो गृहमागतो भवति । रटमानोऽपि दक्षिणे च मरणाय भवति भूतानाम् ॥ १॥ दिवान्धोऽपि यदा पक्षी यं हि ग्रामं समाविशेत् । निर्जनं कुरुते ग्रामं मरणं भूभृतामपि ॥ २ ॥ तदा शान्तिः प्रकर्तव्या यथोक्ता सार्वकामिकी । अनिमित्तेषु सर्वेषु ह्यादौ रुद्रं प्रपूजयेत् ॥३॥ प्रदद्याद्गां च वस्त्राणि घृतं सद्यः प्रदापयेत् । तुण्डं रूप्यमयं कार्य चञ्चुर्लाहमयी तथा ॥ ४ ॥ उ ( औ ) दुम्बरास्तथा पादाश्चत्वारोऽथ क्रमेण तु । कांस्यौ पक्षौ प्रकर्तव्यो सर्वावयवसंयुतौ ॥ ५ ॥ हैरण्यं धर्मराजं च सर्वावयवसंयुतम् । होमस्थलादुत्तरतः स्थापयेत्स्थण्डिले शुभे ॥ ६॥ प्रतिष्ठा तत्र कर्तव्या वेदोक्तमन्त्रपूर्वकम् । रुद्राध्यायं ततः पश्चाच्छान्त्यध्यायं तथैव च ॥ ७ ॥ काकाध्यायेन सर्वेण पूजा कायों च पक्षिणः । कलशं स्थापयेत्तत्र सर्वोषधिसमन्वितम् ॥ ८ ॥ शान्त्यध्यायं जपेत्तत्र वह्निस्थापनपूर्वकम् । ततो होमं प्रकुर्वीत पायसेन क्रमेण तु ॥ ९ ॥ आदौ तु चक्षुषी दद्यात्पश्चात्पायसकेन तु । प्रथमा तु ह्युलूकाय दिवान्धाय तथाऽपरा ॥ १० ॥ तृतीया द्रुदुशब्दाय चतुर्थी चिरजीविने । ततः स्विष्टकृतं दद्यात्पश्चात्कर्म समापयेत् ॥ ११ ॥ अभिषेकं ततः कुर्याद्गीतवादित्रनिःस्वनैः । पश्चाद्दानानि व दद्यात्तथा वित्तानुसारतः ॥ १२ ॥ प्रभूतं कनकं दद्यात्तिलांश्चैव तु वाससी । सप्तधान्यं प्रदातव्यं लोहदण्डः क्रमेण तु । वित्तशाठयं न कुर्वीत शान्तिमिच्छन्कदाऽपि हि । अन्नहींनं दहेद्राष्ट्र मन्त्रहीनं तु ऋत्विजः । यजमानमदाक्षिण्यं नास्ति यज्ञसमो रिपुः ॥ १३ ॥ श्येनगृध्रमवेशेऽपि शान्तिरेव कीर्तता ॥ १४ ॥ दिवान्धस्याऽऽहुतिं तत्र वर्जयेच्च यथाक्रमम् । अरण्यवासिने तत्र गृध्रायाऽऽहुतिरुच्यते ॥ १५ ॥ श्येनाय वयसां राज्ञे प्रदद्याच्च यथाक्रमम् । विधानं च प्रकुर्वीत कल्याणं चोपपद्यते ॥ १६॥
इत्युलूकादिशान्तिः।
+ धनुचिह्नित ग्रन्थोऽयं खपुस्तकस्थः ।
Aho! Shrutgyanam