SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। २५७ अथ काकमैथुनशान्तिः। नारदः-उत्पाता विविधा लोके दिव्यभौमान्तरिक्षजाः । तेषां नामानि शान्ति च सम्यग्वक्ष्ये पृथक्पृथक् ॥ १॥ दिवा वा यदि वा रात्री यः पश्येत्काकमैथुनम् । स नरो मृत्युमामोति यदि वा स्थाननाशनम् ॥ २ ॥ यदा काकयुगं दृष्टं विदधीतावत्सरम् । पितृदेवद्विजान्भक्त्या प्रत्यहं चाभिवादनम् ॥३॥ जितेन्द्रियः शुद्धमनाः सत्यधर्मपरायणः। तद्दोषशमनार्थाय शान्तिकर्म समाचरेत् ॥ ४ ॥ स्वगृह्योक्तविधानेन तत्र स्थाप्य हुताशनम् । मुखान्ते समिदाज्यानै नेदष्टोत्तरं शतम् ॥ ५॥ प्रतिमन्त्रं त्र्यम्बकेण ह्यपमृत्युद्वयेन च । व्याहतिभित्रीहितिलै पाद्यन्तं प्रकल्पयेत् ॥ ६॥ पूर्णाहुति च जुहुयात्को शुचिरलंकृतः । स्वर्ण शृङ्गी रौप्यखुरी कृष्णधेनुः पयस्विनी ॥ ७ ॥ वस्त्रालंकारसहिता निष्कद्वादशसंयुता । तदर्धेन तदर्धेन तदर्धार्थेन वा युता ॥ ८॥ तथा वित्तानुसारेण तन्यूनाधिककल्पना । आचार्याय श्रोत्रियाय तां गां दद्यात्कुटुम्बिने ॥९॥ ब्राह्मणेभ्यो विशिष्टेभ्यो यथाशक्ति च दक्षिणाम् । ब्राह्मणान्भोजयेत्पश्चाच्छान्तिवाचनपूर्वकम् । एवं यः कुरुते सम्यक् स तदोपात्प्रमुच्यते ॥ १०॥ इति काकमैथुनशान्तिः। अथ कपोतशान्तिः। आरोहेत गृहं यस्य प्रविशेधा कपोतकः । स्थानहानिर्भवेत्तस्य यद्वाऽनर्थपरम्परा ॥ १॥ दोषाय धनिनां गेहे दरिद्राणां शिवाय च । तस्य शान्ति प्रकुर्वीत जपहोमविधानतः ॥ २ ॥ ब्राह्मणान्वरयेत्तत्र स्वस्तिवाचनपूर्वकम् । षोडश द्वादशाष्टौ वा श्रौतस्मातक्रियापरान् ॥ ३ ॥ देवाः कपोत इत्यादिऋग्भिः स्यात्पश्चभिर्जपः । कुण्डं कृत्वा प्रयत्नेन स्वगृह्योक्तविधानतः ॥ ४ ॥ ऐशान्यां स्थापयेद्वहिं मुखान्तेऽष्टोत्तर शतम् । प्रत्येक समिदाज्यान्नैः प्रतिपणवपूर्वकम् ॥५॥ यत इन्द्र भयामहे स्वस्तिदाघोरमन्त्रकैः । निभिर्मन्नैश्च जुहुयात्तिलाव्याहृतिभिस्ततः ॥ ६॥ जपादींश्च ततो भक्त्या कुर्यात्पूर्णाहुतिं स्वयम् । विप्रेभ्यो दक्षिणां दद्याद् घोपशान्ति ततो जपेत् ॥ ७ ॥ ब्राह्मणान्मोजयेत्पश्चारस्वयं सञ्जीत बन्धभिः । एवं यः कुरुते सम्यगुक्तदोपात्प्रमुच्यते ॥ ८ ॥ पिङ्गलस्य स्वरे ऽयेवं मधुवल्मीकयोरपि । संपूर्णमन्दिरे हानिः शून्यसमान्य Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy