SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५६ श्रीशिवराजविनिर्मितो अथ पल्लीसरटयोः शान्तिः। पल्लीसरटयोः स्पर्शे सचैल स्नानमाचरेत् । पञ्चगव्यं प्राशयित्वा कुर्यादाज्यावलोकनम् ।। १ ।। शक्ते वाऽप्यथवाऽशक्ते यदीच्छेदात्मनः सुखम् । पुण्याइवाचनं कृत्वा शान्तिकर्म समारभेत् ॥ २ ॥ प्रतिरूपं सुवर्णेन कुर्याद्वित्तानुसारतः । रक्तवस्त्रेण संवेष्टय गन्धपुष्पैः प्रपूजयेत् ॥ ३॥ तदने मृन्मयं रम्यं कलशं जलपूरितम् । वस्त्रमाल्यैरलंकृत्य स्थापयेत्तण्डुलोपरि ॥ ४॥ पञ्चामृतं पञ्चगव्यं पञ्चरत्नानि शक्तितः । पञ्चवृक्षकषायानि(णि)निक्षिप्याऽऽवाहये. चतः ॥ ५ ॥ पूजयेद्गन्धपुष्पायैर्लोकपालान्क्रमेण च । अग्निसंस्थापनं कृत्वा होमकर्म समारभेत् ॥ ६ ॥ मृत्युंजयेन मन्त्रेण चैधोभिः खादिरैः शुभैः। तिलैव्याहृतिभिहोममष्टोत्तरसहस्रकम् ॥ ७॥ अष्टोत्तरशतं वापि कुर्याद्वित्तानुसारतः । अभिषेकं ततः कृत्वा यजमानस्य च द्विजैः ॥ ८॥ पुण्यवारुणसूक्तश्च दोषशान्त्यै द्विजोत्तमः । धौताम्बराणि धृत्वाऽथ स्वर्णवस्त्रातिलान्हरेत् ॥९॥ ब्राह्मणान्भोजयेदित्थं शान्तिकर्म करोति यः । तस्याऽऽयुर्विजयो लक्ष्मीः कीर्तिवृद्धिः शुभं भवेत् ।। १० । पल्लीसरटयोः शान्तिः कथिता भृगुणा पुरा । शौनकाय मुनीन्द्राय लोकानुग्रहकारिणे ॥ ११ ॥ इति पल्लीसरटयोः शान्तिः । प्रपूजयेत् ॥ ५ ॥ तस्याने मृन्मयं रम्यं कलशं जलपूरितम् । वस्त्रमाल्यैरलंकृत्य स्थापयेत्तण्डुलोपरि ॥ ६ ॥ पञ्चामृतं पश्चगव्यं पञ्चपल्लवसंयुतम् । पञ्चवृक्षकषायाणि निक्षपेत्कलशोत्तमे ॥७॥ पूजयेद्गन्धपुष्पाद्यर्लोकपालान्क्रमेण तु । स्वेन स्वनैव मन्त्रेण मृत्तिकादि विनिक्षिपेत् ॥ ८ ॥ इन्द्रादिलोकपालांश्च तत्तन्मन्त्रैस्तु पूजयेत् । अग्निस्थापनकं कृत्वा होमं कृत्वा ततः परम् ॥ ९ ॥ मृत्युंजयेति मन्त्रेण चैधोभिः खादिरैः शुभैः । तिलैयाहृतिभिर्होममष्टोत्तरसहस्रकम् ॥१०॥ अष्टोत्तरशतं वाऽपि कृत्वा सम्यक् समाचरेत् । यमायेति च मन्त्रेण जपं होमादि कारयेत् ॥ ११ ॥ अभिषेकं ततः कुर्यात्सुरास्त्वांमन्त्रवारुणैः । द्यौः शान्त्यादिशुभमन्त्रैः पुराणोक्तक्रमेण तु ॥ १२ ॥ इत्थं कृत्वाऽभिषेकं च विधानाद्यर्चनं ततः । धौताम्बराणि धृत्वाऽथ कुयोनीराजनाविधिम् ॥ १३ ॥ स्वर्णदानं वस्त्रदानं तिलदानं स्वशक्तितः । दोषोपशमनार्थाय कुयांदाज्यावलोकनम् ॥ १४ ॥ अभिषेकं शंकराय ततोऽश्वत्थप्रदक्षिणम् । अतःपरं प्रवक्ष्यामि कुर्याद्राह्मणभोजनम् ॥ १५ ॥ एतद्विधानं यः कुर्याद्गण्डदोषो विनश्यति । एवं कृत्वा विधानेन सौभाग्यारोग्यसंपदः ॥१६॥ सौभाग्यशान्तिमानोति सत्यं सत्यं न संशयः । कथितं वृद्धगर्गेण पल्लीदोषनिवृत्तये ॥ १७ ॥ कपोतपल्लीकलासकाकाः शीषस्थिताश्चेन्निधनाय नूनम् । स्थानाहिस्तत्क्षण एव गच्छेदासांसि दद्याद्विजपुंगवेभ्यः ॥ १८ ॥ इति पल्लीसरटशान्तिः। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy