________________
२५४
श्रीशिवराजविनिर्मितोवामगुल्फे पादयोर्गमनं भवेत् ॥ ११ ॥ पुरोभागे च दुर्वार्ता नष्टवार्ता च पृष्ठतः। वामे हानिर्धनं दक्षे परितो भ्रमणं क्षतिः ॥ १२॥ वामदक्षविभागेन यत्फलं कथितं नृणाम् । विपर्ययेण तत्स्त्रीणां ज्ञेयं शेषं द्वयोः समम् ॥ १३॥ इत्थं पल्लथा: प्रपातस्य फलं ज्ञेयं विचक्षणैः । एतदेव फलं विद्यात्सरटस्य प्ररोहणे ॥१४॥ पल्लयाः प्ररोहणे चैव पतने सरटस्य तु । तयोः फलस्य व्यत्यासात्तद्वदेव प्रजायते ॥ १५ ॥ पल्लयाः प्ररोहणं रात्रौ सरटस्य प्रपातनम् । नातिदष्टफलं विद्याव्याधिमग्रं विपर्यये ॥ १६ ॥ पतनानन्तरं तस्य रोहणं यदि जायते । पतने फलमत्कष्टं रोहणेऽल्पफलं भवेत ॥ १७॥ मत्ययोगे च जन्मः विष्टयां पाते च वैधतौ । चन्द्रेऽष्टमे च क्रूरे च लग्ने विन्नः प्रजायते ॥ १८ ॥ अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् । तदा हानिकरा ज्ञेया व्यत्ययेन तु लाभदा ॥१९॥ चरणादृर्ध्वगा भूयः सद्यो रोहति शीर्षकम् । प्राज्यं राज्यं तदा दत्ते पल्ली श्वेता विशेषतः ॥ २०॥ चिन्तिताभ्यधिक लाभं स्थिता भोज नभाजने । पादाड. लीषु संपाताद्धानिश्च महती भवेत् ॥ २१ ॥ शीर्षस्योपरि पतिता शुभाय पल्ली सिता च यदि नान्या । सितगृहगोधा स्पर्शे सर्वेष्वङ्गेषु शोभना ज्ञेया ॥ २२॥ म (क) केटिका गृहगोधा दक्षाङ्ग समारोहति पुंसाम् । वामाङ्गे तु स्त्रीणां राज्यं पादयोभ्रमणं भवेत् ॥ ६॥ एवं पल्लीप्रपातस्य फलं ज्ञेयं विचक्षणैः । एवं तदेव हि फलं विद्यात्सरटरोहणे ॥७॥ पल्लयाः प्रपतने चैव सरटस्य प्ररोहणे। पल्लयाः प्ररोहणे चैव सरटपतने तथा ॥८॥ यद्वत्फलं च संप्रोक्तं तद्वदेव प्रजायते । पल्याः प्ररोहणं रात्रौ पतनं सरटस्य च ॥९॥ निधनार्थाय हि भवेव्याधिपीडा विपर्यात् । पतनानन्तरं यस्य रोहणं यदि जायते ॥१०॥ पतने फलमुत्कृष्टं रोहणे निष्फलं भवेत् । आरोहणं चोर्चवक्रमधोवकं प्रपातनम् ॥११॥ भवेदादौ सुशीघ्रण तत्फलं जायते ध्रुवम् । स्थानात्स्थानफलं युक्तं गर्गेण कथितं पुरा ॥१२॥
अथ तिथिफलम् । प्रतिपद्रोगसंप्राप्तिद्धितीया राज्यमेव च । तृतीया च भवेल्लाभश्चतुर्थी रोग एव च ॥ १ ॥ पञ्चमी च तथा षष्ठी सप्तमी च धनागमः । अष्टमी नवमी चैव दशमी मरणं ध्रुवम् ॥२॥ एकादशी पुत्रलाभो द्वादशी धनलाभदा। त्रयोदशी चतुर्दशी पौर्णमासी धनागमः ॥३॥
अथ वारफलम् । वयः सोमे बुधगुरुशुक्राचार्याः सदा शुभाः । शेषाः. सर्वेऽशुभाः प्रोक्ता वाराणां फलमादिशेत् ॥ १॥
____ अथ नक्षत्रफलम् । अश्चिन्यां क्षेममारोग्यं भरणी रोगकारिणी । कृत्तिका धनलाभश्च रोहिण्या च मृगे धनम् ॥ १॥ आद्रा तु मृत्युदा चैव. पुष्यादिती च लाभदे । आश्लेषा
Aho! Shrutgyanam