________________
ज्योतिर्निबन्धः ।
* अथ पल्लीपतनफलम् |
पल्लीस्पर्शफलं वक्ष्ये यदुक्तं ब्रह्मणा पुरा । ब्रह्मस्थाने भवेद्राज्यं भाल ऐश्वर्यवर्धनम् || १ || कर्णयोर्भूषणावाप्तिर्नोत्रयोः प्रियदर्शनम् । नासिकायां सुगन्धाप्तिर्मुखे मिष्टान्नभोजनम् || २ || कपोलयोर्भवेत्सौख्यं हनुदेशे महद्भयम् । ग्रीवायां विग्रहचैव कण्ठे वा व्यजनागमः || ३ || कलिर्वशे सुखं पृष्ठे दक्षे वामे गदादिभीः । दक्षांसे विजयो नित्यं वामांसे शत्रुजं भयम् ॥ ४ ॥ इष्टलाभो भुजे द कूपरे मणिबन्ध । दक्षे करतले द्रव्यं तत्पृष्ठे सव्ययो भवेत् ॥ ५ ॥ वामे भुजे कूर्परे च मणिबन्धे धनक्षयः । वामे करतले हानिस्तत्पृष्ठे चार्थनधृता ।। ६ ।। हृदये राजसन्मानः सौभाग्यं दक्षिणे स्तने । दक्षपार्श्वे च भोगाप्तिः स्तने वामे यशोभयम् ||७|| वामपार्श्वे भवेत्पीडा वामकुक्षौ शिशोस्तथा । दक्षकुक्षौ सुतावाप्तिरुदरे च विशेषतः || ७ || वस्त्राप्तिर्दक्षकव्यां च वामकव्यां सुखक्षयः । नाभ्यां मनोरथावाप्तिर्वस्तो गर्भच्युतिर्भवेत् ॥ ८ ॥ गुझे मृत्युर्गुदे रोगो दक्षोरौ प्रीतिवर्धनम् । वामोरौ मृत्युतो दुःखं दक्षजानौ सुवाहनम् ॥ ९ ॥ पशुहानिर्वामजानौ दक्षिणे जघने सुखम् । क्लेशः स्याद्वामजङ्घायां स्फिजि दक्षेऽर्थवृद्धिकृत् ॥ १० ॥ स्फिज वामे स्त्रीवियोगो दक्षे गुल्फे मियागमः । उपप्लवो *काकमैथुनशान्तिपर्यन्तं खपुस्तकग्रन्थश्चैत्रम् —
२५३
अथ पल्लीपतनफलम् |
अथातः संप्रवक्ष्यामि शृणु शौनक यत्नतः । पल्लयाः प्रपतने चैव सरटस्य मरोह ॥ १ ॥ पल्ली च प्रथमे यामे मस्तके सुखदायिनी । मुखे मिष्टान्नभोजी स्यात्पादयोर्मरणं ध्रुवम् ॥ २ ॥ मध्याह्ने पतिता पल्ली दक्षिणे सुखसंपदः । वामाङ्गे कुरुते व्याधिं ब्रह्मद्वारे च वस्त्रदा ॥ ३ ॥ पल्ली तृतीययामे तु पृष्ठावासाच्च रोगदा । करे च कुरुते व्याधिं ब्रह्मद्वारे च वस्त्रदा || ४ || संध्ययोः पतिता पल्ली मस्तके स्वामिमृत्युदा | करे तु दक्षिणे व्याधिं पादे हानिकरी तथा ॥ ५ ॥ अथ देहाङ्गफलानि ।
कपोले कुरुते सौख्यं जङ्घायां क्लेशदायिनी । शीर्षे राज्यश्रियः प्राप्तिल - लाटे धनवर्धनम् ॥ १ ॥ कर्णयोर्भूषणप्राप्तिर्नोत्रयोर्भयवर्धनम् । नासिकायां च सौभाग्यं मुखे मिष्टान्न भोजनम् ॥ २ ॥ कण्ठे नित्यं श्रियः प्राप्तिः स्कन्धयोर्विजयो भवेत् । धनलाभो बाहुयुग्मे करयोः सुखसंपदः || ३ || स्तनयुग्मे तु सौभाग्यं हृदये सौख्यवर्धनम् । पृष्ठे नित्यं महाभाग्यं गुह्ये मृत्युसमागमः || ४ || कटियुग्मे वस्त्रलाभः पार्श्वयोर्भयदर्शनम् । जघनेऽर्थक्षयो नित्यं गुदे रोगभयं तथा ॥ ५ ॥ ऊरुयुग्मे वाहनाप्तिर्जानुयुग्मेऽर्थसंग्रहः । निरुद्यमो जङ्घयोश्च
१ घ. "ज्यं स्थानलाभो ललाटके || १ || क. | २ क. व्यञ्जना ।
Aho! Shrutgyanam