SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। २५१ पायसेन च ॥ १५॥ नागार्जुनसंहितायां-सदन्तं बालकं दद्याद्रामणाय सदक्षिणम् । वत्सस्य मधुलाजानां प्राङ्मुखं दधिदीपयोः ॥ १६ ॥ इति सदन्तोत्पन्नशान्तिः। * अथ धनिष्ठापञ्चकविचारः । दैवज्ञवलभे-कुर्यान्न दारुतृणसंग्रहमन्तकाशायानं मृतस्य दहनं गृहगोपनं च । शय्यावितानमिह वासवपञ्चके च केचिद्वदन्ति परतो वसुदैवतार्धात् ॥१॥ रत्नमालायां-वासवोत्तरदलादिपञ्चके याम्यदिग्गमनगेहगोपने । प्रेतदाहतणकाष्ठसंग्रहं शय्यकावितननं च वर्जयेत् ॥ २ ॥ ज्योतिःसागरे-छेदनं संग्रहं चैव काष्ठादीनां न कारयेत् । श्रवणादौ बुधः षट्के न गच्छेद्दक्षिणां दिशम् ॥ ३ ॥ अग्निदाहो भयं रोगो राजपीडा धनक्षयः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥४॥ रजमार्तण्डे-गृहार्थ तृणकाष्टादिसंग्रहादग्निभीः कलिः । रोगो दण्डोऽर्थहानिः स्यात्क्रमाद्वस्वादिपञ्चके ॥ ५॥ गर्ग:-धनिष्ठापञ्चके चन्द्रे सूर्ये पैत्रादिपञ्चके । छेदनादि न कर्तव्यं ग्रहार्थ तृणकाष्ठयोः ॥ ६ ॥ पूर्वार्ध नातिदोषाय दारुतक्षणसंग्रहे । यानगोपनशय्यासु संपूर्ण वासवं त्यजेत् ॥ ७ ॥ केऽप्याहुः संकटे घोरे पश्चके पश्च नाडिकाः । त्याज्याः क्रमात्ततीयाद्यन्यन्त्यपादावसानगाः ॥ ८॥ इति धनिष्ठापञ्चकविचारः। अथ पञ्चकशान्तिः । गरुडपुराणे-श्रीकृष्ण उवाच । प्रेतदाहो न कर्तव्यः कुम्भमीनगते विधौ । न जलं दीयते तेषामशुभं जायते भृशम् ॥ १॥ पञ्चकाभ्यन्तरे नैव कार्या प्रेतादिकी क्रिया । पुनर्मृत्युभयं तस्मात्पञ्चकानन्तरं शुभा ॥ २ ॥ कारिकायांसद्यो दाहादिक कार्य पञ्चकर्शमृतस्य च । वक्ष्यमाणविधानेन प्रायश्चित्तपुरःसरम् ॥ ३ ॥ चत्वारः पुत्तला दर्भमयाः शवसमीपतः । तन्मन्त्रैमन्त्रिताः स्थाप्यास्ततो दाहस्तु तैः सह ॥ ४ ॥ सूतकान्ते तु पुत्रायैः कार्य शान्तिकमुक्तवत् । कांस्यपात्रं घृतं दद्यात्कुर्याद्राह्मणभोजनम् ॥ ५ ॥ प्रेतमञ्ज-- पञ्चके तु मृतो योऽसौ गति न लभते नरः। तिलान्गां च हिरण्यं च तस्योद्देशे घृतं ददेत् ॥ ६ ॥ तेन विघ्नः शमं याति स प्रेतो लभते गतिम् । विधानं यो न कुर्वीत विघ्नस्तस्य पदे पदे ॥ ७ ॥ वासवे मरणं यस्य गहे याति पुनर्मतिः । तद्दोपशान्तये देयं वस्त्रस्वर्णादिकं. द्विजे ॥ ८ ॥ शतोडुनि गुडं दद्यान्मृतदुः * इतः परं पलीपतनफलकथनात् पूर्वग्रन्थः खपुस्तके नास्ति । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy