SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५० श्रीशिवराजविनिर्मितो अथ व्यतीपातादिशान्तिः। अथातः संप्रवक्ष्यामि शान्ति शौनक उत्तमाम् । वैधृतौ च व्यतीपाते महादोषोऽभिजायते ॥१॥ कुमारजन्मकाले तु व्यतीपातश्च वैधृतिः । संक्रान्तिश्च रस्तत्र जातो दारिद्यकारकः॥ २ ॥ दरिद्राणां महादुःखं सर्वनाशकरो भवेत्। शान्तिवा पुष्कला कार्या तत्र दोषो न कश्चन ॥ ३ ॥ गोमुखप्रसवं कुर्याच्छान्ति कुर्याच यत्नतः । जपाभिषेकदानश्च होमाद्यपि विशेषतः ॥ ४॥ नवग्रहमखं कुर्यात्तस्य दोषप्रशान्तये । प्रथमं गोमुखाजन्म ततः शान्ति समाचरेत्॥ ५॥ इति व्यतीपातादिशान्तिः।। अथ सदन्नोत्पन्नशान्तिः। पुष्कर उवाच-कथयस्व मुनिश्रेष्ठ महर्षे भार्गव प्रभो । शुभाशुभं च तच्छान्ति वद जन्मफलं शिशोः ॥ १ ॥ भार्गव उवाच-उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः। दन्तेवा सह यस्य स्याज्जन्म तद्वालकं न सत ॥२॥ मातरं पितरं खादेदात्मानं वाऽपि मातुलान् । सदन्तं बालकं विद्याद्राक्षसं स्वकुलान्तकम् ॥ ३ ॥ यदि दन्तैः समं जन्म यदि वा दशनाः शिशोः। स्युमेध्ये सप्तमासानां कुलनाशस्तदा ध्रुवम् ॥ ४ ॥ अष्टमासादिमासेषु दन्तोत्थानं शुभावहम् । अथ तद्दोषनाशाय विधानं शृणु सत्तम ॥ ५॥ प्रथमं पूजयेत्तत्र देवदेवं च केशवम् । अग्निं संस्थाप्य जुहुयाद्धृतेन चरुणा पृथक् ॥ ६ ॥ देवदेवं केशवं च वहिं सोमं समीरणम् । धातारं च विधातारं कुलदेवं नव ग्रहान् ॥ ७॥ यजेत्तल्लिङ्ग जैमन्त्रैर्नानामन्त्रैरथापि वा । यथाशक्ति सहस्रं वा शतं वाऽप्यष्टविंशतिः ॥ ८ ॥ ऋत्विग्भ्यो दक्षिगा देया ततः स्नानं शिशोर्मतम् । भद्रासने निवेश्यैनं मृद्भिः सर्वोषधैः फलैः ॥९॥ सर्वैमनोरथैर्गन्धैः स्नापयेत्तीर्थवारिणा । तदनु ब्राह्मगा भोज्याः सुवासिन्यः सुहृद्गणाः ॥ १० ॥ विष्णुधर्मोत्तरे-गजपृष्ठगतं बालं नौस्थं वा स्नापयेद्गुरुः । तदभावे काश्चनेन निर्मिते च वरासने ॥ ११ ॥ सर्वोषधैः सर्वगन्धैर्बोजैः पुष्पैः फलैः शुभैः । पञ्चगव्यैश्च रत्नश्च च्छत्रं शिरसि धारयेत् ॥ १२ ॥ विप्रभोज्यं ततः कुर्याच्छक्या दद्याच्च दक्षिणाम् । अकालदन्तजे दोषे शान्तिरेवं विधीयते ॥ १३ ॥ चुम्बकुमारं त्रिवारं प्रायचित्तमिदं स्मृतम् । मृदं वाऽङ्गारकान्भक्तं दधि सीधु मुख क्षिपेत् ॥ १४ ॥ नौकामारोहयेद्भाल सह धाच्याऽथवाऽग्रजम् । स्वर्ण दयाविना भोज्याः सर्पिषा Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy