________________
२४८
श्रीशिवराजविनिर्मिती--
अथ सिनीवालीशान्तिः । सिनीवाल्यां प्रसूता स्याग्रस्य भार्या पशुस्तथा । गजाश्वमहिषी (पि) चैव शक्रस्यापि श्रियं हरेत् ।। १ ।। ये सन्ति सकलाश्चान्ये स्वप्रसादोपजीविनः । वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान् ।। २ ।। कुहूप्रसूतिरत्यर्थं सर्वदोषकरी मता । यस्य प्रसूतिरेतस्यां तस्याऽऽयुर्धनवर्धनम् ॥३॥ सर्वगण्डसमस्तत्र दोषस्तु प्रबलो भवेत् । शान्ति विना विशेषेण परित्यागो विधीयते ॥४॥ परित्यागात्तत्र शान्ति कुर्याद्धीमान्विचक्षणः । तत्फलं तत्क्षणार्धेन पुनरेवानुपालनम् ॥ ५॥ न त्यजेत्पण्डितो मोहादादज्ञानतोऽपि वा। तद्योगो नाशयत्किचित्तत्स्त्री वा नाशमश्रुते ॥ ६॥ कल्पोक्तशान्तिः कर्तव्या शीघ्र दोषापनुत्तये । रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् ।। ७ । कर्षमात्रसुवर्णेन तदर्थार्धन वा पुनः । अथवा शक्तितः कुर्याद्वित्तशाठयं न कारयेत् ॥८॥प्रतिमां कारयेच्छंभोश्चतुर्भुजसमन्विताम्। त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् ॥९॥श्वेतवर्णी श्वेतपुष्पा श्वेताम्बरवृपस्थिताम् । व्यम्बकेण च मन्त्रेण पूनां कुर्याद्यथाविधि ॥ १० ॥ इन्द्रश्चतुर्भुजो वस्त्रा
कुशचापः सुसायकः। रक्तवर्णो गजारूढो यत इन्द्रेति मन्त्रतः ॥११॥ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्टयक्षसूत्रकमण्डल्वभयश्चैिव धारिणः ॥ १२ ॥ ये सत्या इति मन्त्रेण पूजां कुर्यादनन्तरम् । आग्नेयीं दिशमारभ्य कुम्भान्कोणेषु विन्यसेत् ॥ १३ ॥ कल्पोक्त शान्तिः कर्तव्या कुर्याच्छीघ्रं स्वशक्तितः । गोदानं वस्त्रदानं च सुवर्ण चोवरां शुभाम् ॥ १४ ॥ दशदानानि चोक्तानि क्षीरमाज्यं गुडस्तथा । आज्यावेक्षणमेतानि तत्तन्मन्त्रैश्व कारयेत् ॥१५ समिदाज्यचरोमिं तिलमाषैश्च सर्षपैः । अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ॥१६॥ अष्टोत्तरशतं मुख्यं प्रत्येकं जुहुयाद्विजः । व्यम्बकेणेति मन्त्रेण तिलान्व्याहृतिभिः पुमान् ॥ १७ ॥ चतुर्भिः कलशैर्युक्तं बृहत्कुम्भसमन्वितम् । शान्तिवत्कलशे कार्यमभिषेकं च कारयेत् ॥ १८ ॥ पितृमातृशिशूनां च ह्यभिषेकं तु वारुणैः । शंकरस्याभिषेकं च कुर्याद्राह्मणभोजनम् ॥ १९॥ अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम् । तथा शक्त्यनुसारेण द्विजवाचनपूर्वकम् ॥२०॥
इति सिनीवालीशान्तिः।
अथ गोप्रसवविधिरुच्यते।। गर्गः-प्रणिपत्य रविं वक्ष्ये प्रायश्चित्तमनुस्मरन् । सर्वारिष्टविनाशाय यदुक्तं शान्तिसागरे ॥१॥ पित्ररिष्टे सुतारिष्टे मारिष्टे तथैव च । प्रायश्चित्तं तदा
Aho! Shrutgyanam