SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४० श्री शिवराजविनिर्मितो यते । अथवाऽदर्शनं तस्य मासषट्कं न कारयेत् ॥ १२ ॥ राजमार्तण्डे गण्डप्रसूतं पुरुषं शुभमाहुरपश्यताम् । अन्ये तु होमपूर्वेण दानेन दर्शनं शुभम् ॥ १३ ॥ प्रश्नप्रदीपे – विवाहादौ भवेन्मृत्युर्जात के कुलनाशनम् । यात्रायां सर्वनाशश्च कार्यनाशोऽन्यकर्मणि ॥ १४ ॥ इति गण्डजातफलम् । अथ गण्डदोपशान्तिः । तत्र राजमार्तण्डे ब्रह्मपुराणोक्तं - कांस्यपात्रं प्रकुर्वीत पलैः पोडशभिर्बुधः । अष्टभिर्वा चतुर्भिर्वा द्वाभ्यां वा शोभनं समम् ॥ १ ॥ तन्मध्ये स्थापयेदेवं नवनीतप्रपूरितम् । राजतं चन्द्रमभ्यर्च्य सितपुष्पसहस्रकैः || २ || दैवज्ञः सोपवास शुक्लाम्बरधरः शुचिः । सोमोऽहमिति संचिन्त्य कुर्यादेवमतन्द्रितः ॥ ३ ॥ जपेत्साहस्रिकं मन्त्रं श्रद्दधानः समाहितः । दद्याद्वै दक्षिणामिष्टां गण्डदोषोपशान्तये || ४ || शुद्धं चामीकरं दद्यात्ताम्रपात्रं तिलान्वितम् । गण्डदोपोपशान्त्यर्थे ज्योतिर्वेदविदे शुचिः ॥ ५ ॥ ॐ अमृतात्मने नमः । अयं मन्त्रः । कुङ्कुमं चन्दनं कुठं गोरोचनमथापि वा । घृतपूर्णेषु कुम्भेषु चतुर्षु प्रक्षिपेक्रमात् || ६ || सहस्राक्षेण मन्त्रेण वालकं स्नापयेत्ततः । पितृयुक्तं दिवाजातं मातृयुक्तं च रात्रिजम् ॥ ७ ॥ स्नापयेत्पितृमातृभ्यां संध्ययोरुभयोरपि । कांस्यपात्रं घृतैः पूर्ण गण्डदोषोपशान्तये ॥ ८ ॥ सक्षीरं मौक्तिकं शङ्ख श्वेतवस्त्रयुगं शुभम् । यजुर्वेदविदे दद्याद्दण्डदोपापनुत्तये ॥ ९ ॥ दद्याद्धेनुं हिरण्यं च ग्रहांश्चापि प्रपूजयेत् । आयुर्वेदकरं जप्त्वा कुर्याद्राह्मणतर्पणम् ॥१०॥ ॐसहस्राक्षेण शतशारदेनेत्यादिवचानाम् । इति गण्डदोषशान्तिः । अथाभुक्तमूलविचारः । तत्र व्यवन:- - अभुक्तमूलसंभवं परित्यजेच्च बालकम् । समाष्टकं पिताऽथवा न तन्मुखं विलोकयेत् ॥ १ ॥ वृद्धवसिष्ठः – ज्येष्ठान्ते घटिका चैका मूलादौ घटिकाद्वयम् । अभुक्तमूलमित्याहुस्तत्र जातं त्यजेच्छिशुम् ॥ २ ॥ बृहस्पतिःज्येष्ठान्त्यघटिका तु मूलादौ घटिकाधकम् । तयोरन्तर्गता नाडी भुक्तं Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy