SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। २३९ अथ दुर्गादीनां यजनम् । साधारणे दारुणभे तथोग्रे रिक्तातिथौ सूर्यकुजाकिंवारे । दुर्गादिकानां यजनं प्रशस्त क्षेत्राधिपस्यापि सुरासवाद्यैः ॥ १॥ ___ अथ भूषणनिर्माणम् । क्षिप्राबलचलमृदुभे रिक्तामावर्जितेषु दिवसेषु । निखिलेषु च वारेषु त्रिपुकरे भूषणं कार्यम् ॥१॥ अथ मणिधारणम् । क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेपु तल्लग्ने । मुक्ताफलरजतमयं भूषणमखिलं सवज्रकं धार्यम् ॥ १॥ इति शूरमहाठश्रीशिवराजविनिर्मिते । ज्योतिर्निबन्धसर्वस्वे लग्नाध्यायः समर्थितः ॥ अथ शान्त्यध्यायः। तत्राऽऽदी गण्डजातफलम् । शौनकीयसूत्र-पुत्रो यदि पितुर्गण्डे दिवा चैव प्रजायते । कन्यकाजननं रात्री मातृगण्डे तथैव च ॥१॥ संध्ययोर्धनगण्डे च प्रसूतिर्यदि जायते । विनाशो जायते शीघ्रं मध्यमं तद्विपर्यये ॥२॥ यवनः-यत्र गण्डं करयुतं महादोषकरं भवेत् । शुभग्रहसमायोग ईपच्छुभकरं भवेत् ॥३॥ दिनक्षये व्यतीपाते व्याघाते विष्टिवैधतौ । शूले गण्डातिगण्डे च परिघे यमघण्टके ॥ ४ ॥ ब्रह्मदण्डे मृत्युयोगे प्राप्ते गण्डदिने शिशुः । जातो हन्ति कुलं सर्व तस्मात्कुर्वीत शान्तिकम् ॥ ५॥ धनगण्डे दरिद्रोऽपि शान्ति कुर्यात्स्वशक्तितः। अन्यथा नाशमामोति चामुक्तः विशेषतः ॥६॥ माण्डव्यः-जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता । यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूपः ॥ ७ ॥ गर्ग:--नाक्षत्रं मातरं हन्ति तिथिजं पितरं तथा । लग्नोत्थं जातक हन्ति तस्माद्गण्डान्तमुत्सृजेत् ॥ ८ ॥ बादरायणः-दिवाजं पितरं हन्ति रात्रि मातरं तथा। संध्ययोर्जातमात्मानं गण्डज नो निरामयम् ॥ ९ ॥ ज्योतिष्प्रकाशे-संध्यारात्रिदिवाभागे धिष्ण्यगण्डोद्भवः शिशुः । आत्मानं मातरं तातं ध्रुवं हन्ति यथाक्रमम् ॥ १०॥ मातरं तातमात्मानं तिथिगण्डान्तजस्तथा। लग्नगण्डान्तजस्तद्वत्तातमात्मान(न) मातरम् ॥ ११ ॥ सर्वेषां गण्डजातानां परित्यागो विधी Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy