________________
ज्योतिर्निबन्धः।
२३५
अथ च्छुरिकाश्रमविधिः। तिथ्यादिके शुभे ताराचन्द्रलग्नबलान्विते । काले श्रमक्रिया शस्ता त्यक्त्वाऽनध्यायवासरम् ॥ १ ॥ रुद्रहस्तमिता दैर्ये विस्तारे नवदण्डका । सगैरिकतला वृद्धौ श्रमभूमिः प्रशस्यते ॥ २ ॥ तत्र संस्थाप्य वेतालं सुमुहूर्ते विलग्नके । कटिस्थच्छुरिकाहस्तः प्रसारितकरः परः ॥३॥ किंचिदानतपूर्वार्धे भूतचण्डान्तकं शुभम् । सरोपाक्षं लोहिताक्षं धावन्तमिव संस्मरेत् ॥४॥ गुरूपदिष्टमार्गेण वेतालमतमभ्यसेत् । गुरुद्रोहाभृङ्गिमतं शिष्टर्नेहोररीकृतम् ॥ ५ ॥
अथ ताम्बूलम् । हस्तत्रये दितिद्वन्द्वे मृगे मूले शुभान्विते । ज्ञार्केज्यान्त्यवृषे लग्ने कार्य ताम्बूलभक्षणम् ॥ १ ॥ पुष्योत्तरादितिदिवाकरवाजिपोष्णमूलानुराधवसुवासववैष्णवेषु । वारेषु सौरिधरणीधरवारवर्ज ताम्बूलनूतनफलाद्यशनं शुभाय ॥ २ ॥ यन्मुखं वेदविभ्रष्टं ताम्बूलरसवर्जितम् । सुभाषितपरिभ्रष्टं तन्मुखं बिलमब्रवीत् ॥ ३ ॥ सुपूगं च सुपर्ण च सुधया च समन्वितम् । दत्त्वा स द्विजराजेभ्यस्ताम्बूलं भक्षयेत्ततः ॥ ४ ॥ सुताम्बूलं च यो दद्याद्राह्मणाय विशेषतः । कन्दर्पसदृशो रूपे नीरोगो जायते नरः ॥ ५॥ क्रमुकात्तृप्यते ब्रह्मा विष्णुस्तृप्यति पर्णतः । चूर्णादीशस्तु तृप्येत ताम्बूलदानमक्षयम् ॥ ६ ॥ताम्बूलं श्रीकर भद्रं ब्रह्मविष्णुशिवात्मकम् । अस्य प्रदानात्सकला मम सन्तु मनोरथाः॥७॥ एकपूगं सदा श्रेष्ठं द्विपूगं निष्फलं भवेत् । अतिश्रेष्ठं त्रिपूगं च ह्यधिकं नैव दृश्यते ॥८॥ द्वात्रिंशत्पर्णकं चैव दद्यात्सर्वं महीभुजे । चतुर्विंशतिपर्ण च सामन्तानामनुस्मृतम् ॥ ९ ॥ दशाष्टपर्णकं देयं जामातॄणां विशेषतः । द्वादशपर्ण विदुषे वधूनां दशपर्णकम् ॥ १० ॥ अष्टपणं च सर्वेषां सामान्ये तुर्यपर्णकम् । त्रिपर्ण तु न दातव्यमेकपर्ण तथैव च ॥ ११ ॥ षट्पर्ण चैव दातव्यं रिपूगां च विशेषतः । एकद्वित्रिचतुःपञ्चपड्भिः पूगीफलैः क्रमात् ॥ १२ ॥ लाभालाभौ सुखं दुःखमायुमरणमेव च । पर्णमूले भवेद्वयाधिः पर्णाग्रे पापसंभवः ॥ १३ ॥ चूर्णपर्ण हरत्यायुः शिरा बुद्धिविनाशिनी । ऊर्चाग्रं विटकं धार्यं पर्णमेकं तथैव च ॥१४॥ अङ्गुष्ठचूर्णलेपं च चर्वितं धनदायकम् । पणाग्रं पर्णमूलं च चूर्णपर्ण द्विपर्णकम् ॥ १५॥ अनिधाय मुखे पर्ण पूगं खादति यो नरः । सप्तजन्मदरिद्रत्वमन्ते विष्णुं न विन्दति॥१६॥ तर्जन्या चूर्णमादाय ताम्बूलं न तु खादयेत् । यदि वा
१ क धंधूत । २ व. 'टैर्न शरणीकृ । ३ क. 'लंचय । १ घ. 'पंबन्धूनां । ५ प. पूर्ण।
Aho ! Shrutgyanam