________________
२३४
श्रीशिवराजविनिर्मितोसंस्थितौ नासा सायकचुम्बिनी यदि भवेत्याप्तं तदा सौष्ठवम् ॥ ८ ॥ सुवृत्तः सुदृढो दीर्घः सुक्लिष्टो गुप्तहीरकः । स्निग्धः श्लक्ष्णः सुस्वरश्च गुणस्याष्टौ गुणाः स्मृताः ॥ ९ ॥ आकर्ण पूरयेद्वाणं बाणाग्रं च निरीक्षयेत् । विद्धं तत्तु विजानीयाद्यदि बाहुन कम्पते ॥ १० ॥ आकर्ण पूरयित्वा तु सर्वत्राणेन सायकम् । पाचप्रवर्तितं किंचिन्न शृणोति न पश्यति ॥ ११ ॥ यथा योगीश्वरो लक्ष्यं विहायान्यान्न पश्यति । तद्वच्छ्न्येतराक्षो वा चक्षुभ्यां लक्ष्यमानयेत् ॥ १२ ॥ लक्ष्ये चैकमना भूत्वा वेधने कृतनिश्चयः । चेदेवं सायकं मुश्चेद्विद्धं लक्ष्यं न संशयः ॥ १३ ॥ दृष्टिर्मुष्टौ शरांग्रे च मनो बुद्धिश्च हुंकृतिः । स्युर्यदैतानि युगपल्लक्ष्यवेधस्तदा भवेत् ॥ १४ ॥ मध्याह्नसमये चैव वहत्यतिसमीरणे । संमुखे चैव सूर्यस्य न कुर्याद्वाणमोचनम् ॥ १५ ॥ श्रमं धनुषि ये नित्यं न कुर्वन्ति धनुर्धराः । लक्ष्यवेधः कुतस्तेषां सङ्ग्रामे च कुतो जयः॥ १६॥
___ अथ वैदिको बाणमन्त्रः। धन्वनागा इत्यादि सर्वाः प्रदिशो जयेमेत्यन्तम । अयं नो अग्निरित्यादि शत्रूञ्जयत्वित्यन्तम् ।
अथ स्मातों बाणमन्त्रः । मुष्टिं त्यक्त्वाऽस्त्रपर्वाङ्को हस्तानः शेषमष्टहृत् । आयः स्याद्विषमो मध्यं स मेऽरिजयदो हरिः ॥ १७ ॥
अथ खड्गादिलक्षणम् । पञ्चाशदअलः श्रेष्ठो हीनस्तन्मानतोऽधमः । अनयोरन्तरे मध्यं खड्गं प्राहुमहर्पयः ॥ १ ॥ ह्रस्वं कण्ठे छिन्नवंशं स्फुटितं विस्वनं जगुः । न दृङ्मनोनुकूलं च तन्निन्यं शुभमन्यथा ॥ २ ॥ गोजिह्वावंशपत्राब्जकरवीरदलाकृति । सूच्यग्रसदृशं श्रेष्ठं स्यादतोऽन्यदशोभनम् ॥ ३ ॥ रम्भाक्षारतक्रयुतः पायितो दिनपोपितः । शितः सम्यक् कुण्ठतां स न गच्छति शिलास्वपि ॥४॥ एकादशकरः कुन्तो नवहस्तस्तु शाबलः । सप्तहस्तो भवेद्भल्लः क्षेपणी पञ्चहस्तका ॥५॥ त्रिशूलमष्टहस्तं च शल्यशूलं त्रिहस्तकम् । सार्धहस्तत्रयासङ्गि मुशलं बहेकं तथा ॥ ६ ॥ तरुवारी पदिशं च दीर्घकं नारसिंहकम् । कात्यायनं वाणकं च ज्ञातव्यं खड्गविद्भुधैः ॥ ७॥
१ घ. 'मुष्टिः श° । २ घ. °राग्रं ।
Aho! Shrutgyanam