________________
ज्योतिर्निबन्धः।
२२९ चरणे भयमानोति हृदि सौख्यादिवर्धनम् । पल्याणे रोहणे चैव फलं प्रोक्तं शुभाशुभम् ॥ ४ ॥
अथ पक्षिकर्म। पक्षिद्रेष्काणगे चन्द्रे लग्ने वा शुभसंयुते । पक्षिकर्म शुभं प्रोक्तं बुधे मन्दे बलान्विते ॥ १॥ तुलामध्यान्तसिंहाद्याः कुम्भायाः पक्षिणः स्मृताः। शुभस्वामियुता दृष्टा भवन्ति बलिनस्तु ते ॥ २ ॥
अथ स्थलाम्बुवनचारिकर्म । स्वयोनिभे तनौ शुद्धे शुभस्वामियुतेक्षिते । सर्व कर्म शुभं प्रोक्तं स्थलाम्बुवनचारिणाम् ॥१॥
अथ शत्रुबन्धनम् । मन्दभौमदिने लग्ने द्रेष्काणे शृङ्खलान्विते । बन्धनं वृद्धियोगे वा कार्य वृद्धि स्वरोदये ॥ १ ॥ मीनकर्कटयोरन्त्यौ वृश्चिकस्याऽऽद्यमध्यमौ । सर्वे चत्वार एवैते द्रेष्काणा निगडाश्च ते ॥२॥
___अथ पुष्पफलोत्तारणम् । द्रेष्काणः कर्कटावस्तु फलपुष्पयुतः स्मृतः । शुभस्वामियुते चास्मिंस्तदुत्तारणजं शुभम् ॥ १॥
अथौषधनिष्पादनम् । मन्दारवर्जिते वारे चरक्षिप्रमृदुध्रुवैः । सूर्यसौम्यैः केन्द्रगतैर्भेषजोत्पादनं हितम् ॥ १॥ रसक्रिया सुधायोगे शुद्धौ चूर्णादिकं तथा । तैलाज्यगुटिकाः क्षिपचरैः सौम्यार्कवासरे ॥२। लग्नं तुर्य शुभस्वामियुतं दृष्टं शुभावहम् । निर्माण वर्धमानेन्दौ भेषजानां शुभा क्रिया ॥ ३ ॥
अथौषधग्रहणम् । पुष्टिदं गर्भवृद्धयादिज्वरादिहरणं परम् । एवं विविधमाचार्यश्चिकित्सनमिहोच्यते ॥ १ ॥ मूलानुराधवसुतिष्यपुनर्वसौ च पोष्णाश्विनीश्रवणशाक्रसमीरणेषु । वारेषु चाङ्गिरसितेन्दुदिनेषु शस्तं भैषज्यभक्षणमिदं नियतं नराणाम्॥२॥ सौम्यग्रहबले शुद्ध व्ययादिबून धने । आयुर्योगे जातकोक्ते सेव्यं सर्व सदौ
Aho! Shrutgyanam