________________
ज्योतिर्निबन्धः ।
२२७
शुक्रयोः ॥ १ ॥ माधे वा फाल्गुने वाऽपि सर्ववीजानि संग्रहेत् । शोषयेत्ता - पयेद्रौद्रं रात्रापनिपातयेत् || २ || दीपानिधूमसंस्पृष्टं दृष्ट्या चोपहतं च यत् । वर्जनीयं सदा वीजं कुरुण्डेनान्वितं च यत् ॥ ३ ॥
अथ मेथी ।
रोहिणी रेवती मूलं स्वाती हस्तो मृगस्तथा । आषाढोत्तरयुक्ता च तथा भाद्रपदा मा || १ || वेधने सर्ववीजानां तथा शालप्रवेशने । दुःखदा धनदा चैवानुराधोत्तरफल्गुनी ॥ २ ॥ वटव सप्तपर्णश्च गम्भारी शाल्मली तथा । औदुम्बरी तथा धात्री या चान्या क्षीरवाहिनी || ३ || स्त्रीनाम्नी कर्षकैर्नित्यं मेथी कार्या फलप्रदा ॥ ४ ॥
अथ धान्यस्थापनम् ।
यमादितिमघाज्येष्ठात्र्युत्तरासु च कारयेत् । मीनलने शुभे ऋक्षे निधने क्रूरवर्जिते । निक्षेप्यं कोष्टके धान्यं गर्गों वदति सर्वदा ॥ १ ॥ अथ धान्यनिष्क्रमणम् ।
त्रिषूत्तरेषु रोहिण्यां धनिष्ठावारुणेषु च । एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ॥ १ ॥
अथ चौर्यम् ।
मिश्रोग्रदारुणैर्धिष्ण्यैर्लग्ने क्रूरग्रहस्य च । भौमे खे ज्ञे तनौ चौर्य शकुनस्य बले सति ॥ १ ॥ चौर्यं मन्दारयोर्वारे लग्ने क्रूरग्रहस्य च । शकुनस्य बले कुर्याल्लिग्ने दशमगे कुजे ॥ २॥
अथ द्रव्यार्पणम् ।
चरैः श्विरे लग्ने धे धर्मसुताष्टमे । व्यवहारादिना द्रव्यप्रयोगो मुनिभिः स्मृतः ॥ १ ॥ साधारणोग्रतीक्ष्णेषु स्वात्यां द्रव्यं न लभ्यते । दत्तं प्रयुक्तं निक्षिप्तं नष्टं चेत्याह नारदः ॥ २ ॥ भरण्यां संग्रहं कुर्यात्पिञ्चके ज्ञे त्रिपुष्करे । ऋणकर्म चरैः क्षिप्रैर्ऋणच्छेदः कुजे हितः ॥ ३ ॥ चम्पके पञ्चगुणितं त्रिगुणं च त्रिपुष्करे । यमले द्विगुणं प्रोक्तं हानिवृद्धयादिकं बुधैः || ४ || ऋणं भौमे न कुर्वीत न देयं बुधवासरे । ऋणच्छेदं कुजे कुर्यात्संचयं सोमनन्दने || ५ || हस्तेऽर्कवारे संक्रान्तौ यदृणं स्यात्कुलेषु तत् । वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेत् || ६ || धनादिस्थापने क्रूरास्त्र्यायारिस्थाः खगो रविः । विरन्ध्रान्त्ये शुभाः सौम्याः कृष्णेsort धनगो न सन् ॥ ७ ॥
Aho! Shrutgyanam