________________
२२६
श्रीशिवराजविनिर्मितोकीटः कज्जलमन्नवृद्धिरधिका निस्तण्डुलत्वं क्रमात्स्यादीतिप्रभवं भयं न फणितो बीजोप्तिकालेऽर्कभात् ॥ ४ ॥ नारदः-भवेद्भत्रितयं मूर्ध्नि धान्यनाशाय राहुभात् । गले त्रयं कजलाय वृद्धयै च द्वादशोदरे ॥ ५ ॥ निस्तण्डुलत्वं लागले भचतुष्टयमीरितम् । नाभौ बहिः पञ्चकं च बीजोप्ताविति चिन्तयेत् ॥६॥ कुर्वीत रेखात्रयमूर्ध्वगामि पश्चात्रिभिस्तत्सहितं त्रिशूलैः । पतिर्यगन्यद्वितयं विदिक्स्थं बीजोप्तिचक्रं स्मृतमेतदायः ॥ ७ ॥ मूर्त्यर्कयुक्तं सगतागतं भं न शोभनं कोणगतानि सन्ति । तिर्यस्थितं मध्यफलं भषट्कं फलं न यच्छन्ति नवापराणि ॥ ८ ॥ न व्यतिपाते विष्टयां वैधृतिशूलादिदुष्टयोगेषु । दर्श रिक्तां हित्वा बीजोप्तिः सस्यवृद्धये भवति ॥ ९ ॥ स्नातैर्विगतक्रोधैवृद्धः शुभवाग्भिरव्यग्रैः । शकुननिमित्तवले सति वृपैरकृष्णैवपेरीजम् ॥ १० ॥ बीजोप्तिलग्नगे चन्द्रे तहिने च विशेषतः । गुरौ केन्द्रे शुभैर्युक्ते दृष्टयोः कर्मलग्नयोः ॥ ११ ॥ त्वं वै वसुंधरे देवि सितपुष्पफलप्रदे । नमस्ते मे शुभं कृत्वा कृषिवृद्धिकरी शुभे ॥ १२ ॥ रोहन्तु सर्वसस्यानि काले देवः प्रवर्षतु । कर्षकस्तु वदेदेवं धनधान्येन युज्यते ॥ १३ ॥
इति चीजोप्तिः।
अथ धान्यच्छेदनम् । धान्यानां लवनं कुर्याद्गुरौ शुक्रे च सर्वदा । रिक्तावर्जे तु शेषाश्च तिथयः स्युः शुभावहाः ॥ १॥ रेवतीहस्तमूलेषु श्रवणे भाग्यमैत्रयोः । पितृदेवे तथा सौम्ये धान्यच्छेदे भृगूदये ॥ २ ॥ अनुराधा तथा ज्येष्ठा रेवती धान्यकर्तने । केवले सिंहलग्ने च तथैव च गुरूदये ॥३॥ धान्यानां लवनं कुर्यात्तथा लग्नेन्दुसंगमे । सर्वेषामपि वृक्षाणां प्राह श्रेष्ठतमं मुनिः ॥ ४॥ सपत्रौ मापमुद्गौ च यवधान्ये सकञ्चुके । छिन्द्यात्तिलं च निष्पन्नमेतत्पाराशरं मतम् ॥५॥
अथ धान्यसंग्रहः । रोहिण्युत्तरपुष्येषु भरणीशक्रनैऋते । पौष्णार्काश्विविशाखास हरिमित्रपुनर्वसौ ॥१॥ चित्रासु च मघायां च जीवार्केन्दुभृगोर्दिने । अरिक्तायां तिथौ चैव सस्यानां संग्रहो हितः ॥२॥ रोहिण्यामघाहस्तरेवतीश्रवणेषु च। मन्ददृष्टिस्थिरे लग्ने धान्यसंग्रह इष्यते ॥ ३॥
अथ बीजसंग्रहः । हस्तचित्रादितिस्वातीरेवतीश्रवणद्वये । स्थिरे लग्ने गुरोवारे बीजं धार्य
Aho! Shrutgyanam