________________
ज्योतिनिबन्धः।
२२३ अथ ब्रह्मज्ञानोपदेशः । शीतांशौ बुधराशिस्थे शुभेषूदयवर्तिषु । ज्ञानस्य ग्रहणं कार्य हित्वा पापग्रहोदयम् ॥१॥
अथ दीक्षा। मृदुध्रुवचरक्षिारेऽर्के धर्मसत्क्रिया । कार्या विद्योक्तभैर्दीक्षा स्वदेवतिथिभेषु च ॥ १॥ वीर्यहीनः खलैर्धर्मस्थितैः कर्मणि मन्त्रिणि । सुस्थिरे च शुभा दीक्षा प्रव्रज्यायोगसंभवैः ॥२॥
अथ श्रुतिस्मृतिप्रारम्भः । । श्रुतिस्मृतिपुराणादिप्रोक्तानां धर्मकर्मणाम् । गुरुज्ञलग्नवर्गेषु प्रारम्भस्तद्रले सति ॥१॥
अथ शिल्पविद्यारम्भः । लग्नकर्मगते सौम्ये जीवे वाऽमृतदीधितौ । तयोर्वर्गस्थितौ शिल्पविद्यारम्भः प्रशस्यते ॥१॥
अथ नाट्यम् । हस्तः पुष्यो वासवं चानुराधा ज्येष्ठा पोष्णं वारुणं व्युत्तराश्च । पूर्वाचार्यः कीर्तितश्चन्द्रवृत्त्या नृत्यारम्भे शोभनोऽयं भवर्गः ॥१॥ बुधे विलग्ने शशिनि ज्ञराशौ गुरुचीक्षिते । हिबुकस्थैः शुभैर्नाट्यप्रारम्भः सद्भिरिष्यते ॥ २ ॥ वाद्ययन्त्राणि कार्याणि शिल्पभैश्चाश्वभैरपि । संगीतमभ्यसेत्प्राज्ञः सबले झे त्रये विधौ ॥३॥
अथ राज्योपकरणादीनि । वाद्याद्याघातयन्त्रागि राज्योपकरणानि च । कुर्यात्पट्टाभिषेकोक्तर्यात्रायोगैर्नयावहैः । कुर्याद्वस्खालयं तत्र प्रवेशं तु प्रवेशभैः ॥ १॥
अथ पण्यक्रयविक्रयः ।। भाद्रद्वयं त्रिदशमं त्रिदिवाकरेषु मूलानिलोत्तरतुरङ्गमरेवतीषु । सारङ्गपाणिरजनीकरमित्रभेषु लाभः सदैव भवति क्रयविक्रयाभ्याम् ॥ १ ॥ दशमैकादशे लग्ने वित्तकेन्द्रत्रिकोणकैः । शुभैः पण्यस्य कर्मोक्तं वर्जयित्वा घटोदयम् ॥ २॥
अथ धर्मारम्भोऽभिचारश्च ।। मृदुध्रुवचरक्षिारैर्भर्धर्मसत्क्रिया । हिबुकेऽर्के गुरौ लग्ने धर्मारम्भी रखेदिने । माङ्गल्यमभिचारश्च खस्थे सूर्ये गुरूदये ॥१॥
Aho! Shrutgyanam