SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। २११ तथा ॥ २० ॥ जन्मः वाऽष्टमे चन्द्रे वारे भौमे शनैश्चरे । प्रस्थितोऽपि न वै गच्छेदत्यन्तं गर्हिते दिने ॥ २१ ॥ इति यात्रायां प्रस्थानविधिः। .. अथ यात्रायां शकुनाः । तिथिधिष्ण्यं च वारश्च लग्नं ग्रहबलं तथा । पञ्चानामपि सर्वेषां शकुनो दण्डनायकः ॥ १॥ वसन्तराज:-चूडामणिज्योतिषशास्त्रहोरास्वरोदयाद्यैर्विषमैर्जनस्य । जडीकृतस्यौषधमेतदुक्तं स्फुटं चमत्कारिरसातिरेकम् ॥२॥ नक्षत्रवारैस्तिथिभिश्च लग्नैः कार्य न किंचिच्छकुने विरुद्धे । दोषेऽपि तेषां शकुनेऽनुकूले सदैव सिध्यन्ति समीहितार्थाः ॥ ३ ॥ रत्नकोशे-नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । लग्नस्य ग्रहवीर्यस्य शकुनो दण्डनायकः ॥ ४ ॥ वसन्तराज:-लोकेऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञाय समस्तकार्यम् । नापायकूपे पतति प्रसर्पञ्छास्त्रं हि दिव्या दृगतीन्द्रियेषु ॥ ५॥ पूर्वजन्मकृतकर्मणः फलं पाकमेति नियमेन देहिनाम् । तत्प्रकाशयति देवचोदितः प्रस्थितस्य शकुनस्थितस्य च ॥ ६॥ बृहद्यात्रायाम्अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत्तस्य शकुनः पाकं निवेदयति गच्छतः ॥ ७ ।। गर्गः-तत्रापशकुने शीघ्र कार्य परिहरेद्वधः । शुभे तु शकुने नूनं स्वाभीष्टं च समारभेत् ॥८॥ वसन्तराज :- नन्ववश्यमुपभुज्यते नृभिः प्राक्तनस्य निजकर्मणः फलम् । तेन किं शकुनसंविदा जनो यत्र दैवमतिवर्तितुं क्षमः ॥ ९॥ ज्योतिष्प्रकाशे-नैतदेवं हि तत्पाकोऽकाले नैव व्यवस्थितः । तद्विना भ्युज्यते नैव सोऽप्युपायानुगः स्मृतः ॥ १०॥ सर्पवह्निविषकण्टकादिकान्येन देवशरणोऽपि मानवः । दूरतस्त्यजति पौरुषं सदा तेन तत्स्फुरति दैवतोऽधिकम् ॥ ११ ॥ पौरुषेण हृदयेप्सितां गतिं प्राप्नुवन्ति पुरुषाः सुमेधसः। यान्ति देवशरणा लयं यथा पादयोज्वलति दावपावके ॥ १२ ॥ दैवमेव यदि कारणं भवेन्नीतिशास्त्रमुपयुज्यते कथम् । यदलेन सुधियो महोद्यमाः पालयन्ति जगती क्षितीश्वराः ॥ १३ ॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति संप्रचक्षते । उद्यमेन तदुपार्जितं तदा देवमुद्यमवशं न तत्कथम् ॥ १४ ॥ वेत्ति मामयमयं न वेत्ति मां मन्यते यदवमन्यतेऽथवा । यत्नवानयमपेक्षतेऽन्वयं नेदृशेषु शकुनो विशिष्यते ॥ १५ ॥ ज्योतिष्यकाशे-बहूनां बजतां पुंसां शकुनस्य फलं कथम् । स्वयं प्रोक्तं यतस्तेषां प्राकमाणि पृथक्पृथक् ॥ १६ ॥ वसन्तराजः-एकत्र सार्थे बजतां बहूनां यो यादृशं पश्यति दैवयोगात् । श्यामादिकानां शकुनेन तादृक्फलं Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy