________________
२०३
ज्योतिर्निबन्धः। खस्थे गुरौ केन्द्रे सबले च विशेषतः । नृपो हन्ति रिपून्सर्वान्कर्म ज्ञानोदयो यथा ॥६७॥ वर्गोत्तमगते शुक्रे जीवे वापि विलग्नगे । रसत्यागो यथा पापं हन्ति शत्रून्गतो नृपः ॥ ६८ ॥ जन्मेशो वाऽपि लग्नेशो यात्रालग्नेश्वरोऽपि वा। पूर्णेन्दुर्वा दिगीशो वा केन्द्रे गन्ता श्रियं लभेत् ॥ ६९॥ बृहद्यात्रायां-यद्वविद्याध्ययनं द्रव्यलोभाद्भस्मीकुर्यात्पुण्यराशि गुरुं च । वेशिस्थानं लग्नगं यानकाले शत्रून्हत्वाऽभ्यति गेहं कृतार्थः ॥ ७० ॥ ये जातकोक्तक्षितिपालयोगैर्महीभृतो यान्ति रिपूविजेतुम् । तेषां प्रकोपाग्निरुपैति शान्ति विद्वेषियोषाश्रुजलप्रवाहैः ॥ ७१ ।। बृहज्जातके-वक्रार्कजार्कगुरुभिः सकलैत्रिभिर्वा स्वोच्चेषु षोडश नृपाः कथितैकलग्ने । द्वघेकाश्रितेषु च तथैकतमे विलग्ने स्वक्षेत्रगे शशिनि षोडश भूमिपाः स्युः ॥ ७२ ॥ पितामहः-वर्गोत्तमगते लग्ने केन्द्रे वा चन्द्रवर्जिते । चतुराद्यै ग्रहैदृष्टे नृपा द्वाविंशतिः स्मृताः ॥७३॥ मेषादौ राशौ स्थितैर्निरूप्यमाणे वेदाङ्गन्यमाः २६४ । एवं विलग्नेऽपि २६४ । उभयम् ५२८ । आद्याः सर्वे ५६० । अन्येऽपि जातकोक्ता विलोक्याः । नारद:-ये नपा यान्त्यरीओतुं तेषां यौगैर्नृपात्यैः । उपैति शान्ति कोपानिः शत्रुयोषाश्रुवारिभिः ॥ ७४ ॥
इति यात्रायां योगाः।
अथ राजयोगभङ्गः। ज्योतिर्विवरणे-ये योगा ग्रहलग्नाभ्यां चोक्तास्ते चोत्तमोत्तमाः । केवलं धुचरैमध्या जघन्या विबलैश्च तैः॥१॥ ज्योतिष्प्रकाशे-विवलग्रहयोगेण यः प्रयाति स संगरे । ब्रीडां प्रामोति किंचिज्ज्ञो यथा सदसि भूभृतः ॥ २॥ जातकेपञ्चभिर्नीचगैः खेटेरस्तं यातैरथापि वा । प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिताः ॥३॥ परनीचगते चन्द्रे क्षीणे योगे महीपतिः । नाशमायाति राजेव दैवज्ञप्रतिलोमगः ॥ ४॥ त्रिविधे तु महोत्पाते त्रिशङ्खनृपभोदये । राजयोगा लयं यान्ति दम्भे कर्मफलं यथा ॥५॥ जातकोत्तमे-केमद्रुमेण यो याता यात्रा स्यात्तस्य निष्फला । राजयोगा लयं यान्ति क्षिप्रं भिक्षोर्विलासवत् ॥ ६॥ ज्योतिष्प्रकाशे-न केमद्रुमजो याता सम्यग्यात्राफलं लभेत् । बिरक्तिं संगते यान्ति वृद्धे मुग्धामनोरथाः ॥ ७॥
इति राजयोगभङ्गः ।
Aho! Shrutgyanam