________________
१९८
श्रीशिवराजविनिर्मितोश्वेताश्वसहितेन च ॥१२॥ शिष्टेभ्यो दक्षिणां दद्यायथावित्तानुसारतः । ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः ॥ १३ ॥ एवं यः कुरुते सम्यक्पतिशुक्रप्रपूजनम् । न तस्य संमुखो दोषो विजयी चार्थवान्भवेत् ॥ १४ ॥ इतरेषां ग्रहाणां च पूजां कृत्वा प्रयत्नतः । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥१५॥
इति प्रतिशुक्रपूजाविधानम् ।
अथ प्रतिशुक्रदानम् । सितमश्वं सितं वस्त्रं तारमौक्तिकहेमयुक् । दत्त्वा द्विजावये यायात्प्रतिशुक्रेऽप्यशकिन्तः ॥१॥ विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् । महाश्वेन समायुक्तं सामगाय निवेदयेत् ॥ २॥ एवं शुक्रोदये कुर्वन्यात्रादिषु च भारत । सर्वान्कामानवामोति विष्णुलोके महीयते ॥ ३ ॥ अतिसंकटे विधानं केषांचि. न्मते-वृषात्पञ्चकमादाय स्वसीमायां ततो व्रजेत् । प्रतिशुक्रेऽपि संपूज्य सानुकूले जले क्षिपेत् ॥ ४॥
इति प्रतिशुक्रदानम् ।
अथ योगप्रशंसा। बृहस्पतिः-एवं कथितकालोऽयं दुर्लभो यातुरञ्जसा । स्वल्पकालो यतस्तस्माद्योगान्वक्ष्याम्यभीष्टदान् ॥ १ ॥ नारदः-पश्चाङ्गशुद्धिरहिते दिवसेऽपि फलप्रदा । यात्रा योगैर्विचित्रांस्तान्योगान्वक्ष्येऽधुना ततः॥२॥ रत्नावल्याम्आत्ययिककार्ययाने देवेन निपीडिते च यातव्यम् । केवलविलग्नयोगादपि याता सिद्धिमानोति ॥३॥ श्रीपतिः -तिथौ क्षणे भे करणे च वारे योगे विलग्ने हिमगौ नृपाणाम् । पापेऽपि यात्रा शुभदाऽत्र योगैर्यतस्ततस्तान्कियतोऽपि वक्ष्ये ॥ ४ ॥ ललः -यातव्ये व्यसनगते ह्यनिष्टदेवे च भूपतिस्त्वरया । लग्नैरभीष्टकल्पव्रजति तिथौ भेषु चरमेषु ॥ ५ ॥ दैवज्ञवल्लभेसुधांशुतिथ्युद्गमवारधिष्ण्यक्षणषु पापेष्वपि भूपतीनाम् । अभीष्टसिद्धौ कथयामि यात्रां प्रयोजनेष्वात्ययिकेषु सत्सु ॥६॥ ज्योतिःसागरे--योगः फलं क्षितीशानां द्विजानां भगुणैर्भवेत् । शकुनैधारचौराणामितरेषां मुहूर्ततः॥७॥
१ घ. तव्यं व्य ।
Aho! Shrutgyanam