________________
ज्योतिर्निबन्धः ।
१९७
शिपादे च यावत्तिष्ठति चद्रमाः । तावच्छुको भवेदन्धः संमुखं गमनं शुभम् ॥ ८ ॥ ज्योतिष्प्रकाशे - अत्युत्सुकेषु यावत्प्राक्कपालस्थो भृगुर्भवेत् । तावत्पाशिदिशं गच्छेत्प्राचीं प्रत्यस्थितस्तथा ॥ ९ ॥
इति प्रतिशुक्रापवादः ।
अथ शुक्रस्तोत्रम् |
वसिष्ठः-दैत्यमन्त्री दिवादश चोशना भार्गवः कविः । श्वेतोऽथ मण्डली काव्यो विधिमान्निरृतिस्तथा ॥ १ ॥ एतानि भृगुनामानि यः कीर्तयति नित्यशः । प्रतिशुक्रो न तस्यास्ति लक्ष्मीमायुश्च विन्दति ॥ २ ॥ महाभारतेनमस्ते सर्वलोकेश नमस्ते भृगुनन्दन । कवे सर्वार्थसिद्ध्यर्थं गृहाणार्ध्यं नमोऽस्तु ते || ३ || दत्त्वेत्ययै प्रयत्नेन प्रार्थयेच्चैव भक्तितः । अनेनैव च मन्त्रेण प्राञ्जलिः प्रणतः स्थितः ॥ ४ ॥
इति शुक्रस्तोत्रम् ।
अथ प्रतिशुकपूजाविधानम् ।
वसिष्ठः- इदमर्थमनुक्तत्वाच्छाखे पैतामहे क्वचित् । तस्मात्संमुखदोषोऽस्ति प्रतिशुक्रस्य सर्वदा || १ || तोपशमनार्थाय शान्ति वक्ष्ये समासतः । कृत्वा शान्ति प्रयत्नेन पश्चात्सर्वे समाचरेत् || २ || प्रतिशुक्रे प्रदातव्या वेनवो हेमसंयुताः । अनाहं कुजे दद्यादेमवस्त्रसमन्वितम् ||३|| कृष्णां गां सूर्यतनये सुवर्ण लोहमुत्तमम् । प्रभूतं काञ्चनं दद्याद्यायात्सोमसुतं प्रति || ४ || पट्टवस्त्रयुगं जीवे दद्यात्काञ्चनसंयुतम् । पूजिता गच्छतां कुर्युः संमुखा अपि सत्फलम् ।। ५ ।। भृगोर्लने भृगोर्वर्गे भृगुवारे भृगूदये । उपोप्य भृगुवारेऽपि यावच्छुक्रोदयं व्रती ॥६॥ राजतेन सुशुद्धेन कारयेत्प्रतिमां भृगोः । लिखेदष्टदलं पद्मं कांस्यपात्रे च तण्डुलैः || ७ || शुक्र सूक्ष्मान्वरेर्वेष्ट्य प्रतिमां तत्र पूजयेत् । शुक्लपुष्पाक्षतैर्गन्धमुक्ताहारैर्विचित्रितैः ॥ ८ ॥ उपचाराणि कार्याणि शुक्रं ते अन्यदित्यृचा | तन्मन्त्रेण जपं कुर्यात्सम्यगष्टोत्तरं शतम् || ९ || कर्मान्तेऽनेन मन्त्रेण भक्त्या चायें प्रदापयेत् । श्वेतगन्धाक्षतैः पुष्पैः क्षीरमिश्रेण वारिणा ॥ १० ॥ त्वत्पूजयाsनया शुक्र ते संमुखसमुद्भवम् । दोषं विनाशय क्षिप्रं रक्ष मां तेजसां निधे ॥ ११ ॥ इति प्रार्थ्य प्रयत्नेन प्रतिमा भूषणान्विता । दैवज्ञायैव दातव्या
Aho! Shrutgyanam