SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९० श्रीशिवराजविनिर्मितोबलहीनो यो यो विरोधी दशापतेः । सांप्रतं विवलश्चासौ लग्ने सौम्योऽपि नेष्टदः ॥ २२ ॥ बलवाञ्जन्मकाले यो दशापालस्य यः सुहृत् । फलदः सांप्रतं खेटो मूर्ती पापोऽप्यभीष्टदः ॥ २३ ॥ दैवज्ञवल्लम-जन्मक्षजन्मलग्नपयोः शत्रुलग्नगः स सौम्योऽपि । कुरुते नृणां विपत्ति क्रूरोऽपि शुभस्तयोमित्रम् ॥ २४ ॥ जन्मःजन्मलग्नेशरिपुः सौम्योऽपि लग्नगः । विनाशदो भवेन्मित्रं तयोः पापोऽप्यभीष्टदः ॥२५॥ वसिष्टः-न तानकारकाख्यो यो जन्मलग्नभयोर्भवेत् । सौम्योऽपि स विलग्नस्थो याने यातुर्विरोधकृत् ॥ २६ ॥ अथ यात्रोपयोगित्वावशिवर्धकरक्षकनापकतानकादीनां लक्ष्मोच्यते-सूर्याद्वितीयमक्षं वेशिस्थानं प्रकीर्तितं यवनः। तच्चेष्टग्रहयुक्ते जन्मनि चेष्टासु च विलग्नम् ॥ २७ ॥ वेशिर्विलग्नोपगतो यियासोविनाऽपि यत्नात्कुरुते फलाप्तिम् । शुभग्रहर्जन्मानि संयुता ये ते राशयो लग्नगताः प्रशस्ताः ॥ २८ ।। यश्चापि पणफरस्थः स भवति रक्षोपगो यस्य । तस्येति ग्रहस्य कारको भवति । यो यस्य च दशस्थस्तस्यहि वश्योपगो ग्रहो ज्ञेयः ॥२९॥ जन्मसमये शशाङ्कगदुपचयसंस्था ग्रहाः केचित् । ते सर्वे तानसंज्ञाः क्रूरा अपि चात्र सौम्यसमाः ॥ ३० ॥ जन्मन्युपचयसंस्थाः परस्परं खेचरा ये च । ते नापका मुनीन्द्रैस्तानसमानाः स्मृता नूनम् ॥ ३१॥ लग्नस्थः सुखसंस्थो दशमस्थश्चापि कारकः प्रोक्तः । एकादशेऽपि केचिद्वाञ्छन्त्यायोः प्रसवकाले ॥३२॥ तुङ्गसुहत्वगृहां स्थिता ग्रहाः कारकाः समाख्याताः । अन्यस्मादशमस्थः स कारकश्चापि निर्दिष्टः ॥ ३३ ॥ अत्र कारको वर्धकः । स्वोच्चत्रिकोणसंस्था अपि केन्द्रगता ग्रहाश्चिन्त्याः । ज्ञेया नापकसंज्ञानुपतायकसंज्ञिता भाग्ये ॥ ३४॥ यवनः-स्वक्षेत्रे रजनिकरो बुधभवने भार्गवो बुधः स्वगृहे । सौरश्चैव तुलायां नापकविधिरेष निर्दिष्टः ॥ ३५ ॥ रक्षका वधकाश्चैव ये स्युर्जन्मनि नापकाः । तान्पापानपि निःशङ्को यात्रालग्ने नियोजयेत् ॥ ३६॥ अशस्तोऽपि भवेच्छस्तः शस्तोऽपि विफालायते | ग्रहो राशिश्च लग्नस्थो रक्षकादिप्रभेदतः ॥ ३७॥ राज्यं श्रियं सैन्यसुखं प्रियशब्दं सुभाग्यताम् । जयं हानि भास्कराया दद्युः सद्भवनं ग्रहाः ॥ ३८ ॥ सौरिस्थानगते सूर्ये शुभो लग्नगतः कुजः । बुधकोणार्कशुक्राणां बुधस्थानस्थितः सितः ॥ ३९ ॥ मन्दः सूर्यग्रहे शस्तः शशी सर्वत्रगः शुभः । चन्द्रास्फुजित्स्थानगतो गुरु व शुभो भवेत् ॥ ४० ॥ एकोऽपि केन्द्रगो वक्री क्रूरः सौम्योऽथवा ग्रहः । वर्गो वा तस्य लग्नस्थो भवेद्यातुर्विनाशदः॥४१॥ ज्योतिष्प्रकाशे-केन्द्रे वक्री मृतिं कुर्यात्तस्य वर्गोदितं तथा । सुखेऽस्तजन्मभेऽङ्गे च भङ्गः पापयुतेक्षिते ॥ ४२ ।। बादरायणः-जन्मपौ केन्द्रगौ ग्राह्यौ तयोः १ ख. विशेषक। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy