________________
ज्योतिर्निबन्धः ।
१८७
चतुर्गुणानि भान्यङ्गभाजितानि यथाक्रमम् । पीडा स्यात्प्रथने शून्येमध्ये शून्ये महद्भयम् ॥ ४२ ॥ अन्त्ये शून्ये तु मरणं त्रिशून्यरहितं शुभम् । तिथिवासरनक्षत्रमं कैकं स्थापयेत्रिधा ॥ ४३ ॥ अस्मिन्पक्षे वारे शून्यं नाऽऽयात्येव । पक्षान्तरं-तिथिवासरऋक्षाणां योगं कृत्वा त्रिधा लिखेत् । द्वित्रिवेदैः संगुणितं सप्ताष्टरसभाजितम् ॥ ४४ ॥
अथ पन्था राहुः ।
धर्मे शशिनस्तदादि तु फलं वैरं जयो भङ्गता लाभश्चेति तथाऽर्थतः क्षयसमत्वे लाभवस्त्रागमौ । तद्वत्कामगते रवौ भयधने सौख्यं जयः कीर्तितो मोक्षेऽर्के मृतिलाभनिष्फलसमत्वे राहुपन्था इति ॥ १ ॥ इति यात्रायां पञ्चाङ्ग-शुद्धिः ।
अथ यात्रायां दोहदप्रकरणम् ।
तिथिवारर्क्षचन्द्रेभ्यो लग्नं कोटिगुणं स्मृतम् । तस्मान्निषिद्धतिध्यादेर्दोषः स्वल्पतरो मतः ॥ १ ॥ तथाऽपि निन्यतिथ्यादौ कृत्वा दोहदकं विधिम् । केवलं लग्नवीर्येण गतो राजा क्षितिं जयेत् ॥ २ ॥ तिथिष्वर्कजलं प्राश्यं तण्डुलोदकसर्पिषी । हविष्यं दधि सस्वर्ण तिलाम्भोवीजपूरकम् ||३|| माषा विश्वभरामूत्रं पिष्टकं तिलपिष्टकम् । कन्दो मूलं तथा शाकं शस्तवृक्षदलानि च ॥ ४ ॥ मज्जिकां पायसं साज्यं सौवीरं कथितं पयः । दधि क्षीरमतं च वारेष्वद्यातिलौदनम् ॥ ५ ॥ क्रमद्दत्रगुणाः ३२ षष्टिः ६० खाङ्काः ९० खाक्षाः ५० खसागराः ४० । खाष्टौ ८० खागाः ७० परे प्राहुर्मन्दादेर्भोगनाडिकाः || ६ || अर्कादौ धारयेद्भाले कुङ्कुमं चन्दनं मृदम् । यवान्दार्धं घृतं तैलं वारशूलापनुत्तये ॥ ७ ॥ ताम्बूलं चन्दनं मृच्च पुष्पं दधि घृतं खलम् । वारशूलहराण्यक - द्दानाद्धारणतोऽदनात् ॥ ८ ॥ बृहस्पतिः - सूर्यवारे घृतं प्राश्यं सोमवारे पयस्तथा | गुडमङ्गरवारे च बुधवारे तिलानपि ॥ ९ ॥ गुरुवारे दधि प्राश्यं शुक्रवारे यवानपि । माषान्भुक्त्वा शनैर्वारे शूले गच्छन्न दोषकृत् ॥ १० ॥ भक्ष्यान्भुक्तोदितान्कृत्वा यात्रायोगेण गच्छता । प्रियं वदन्वेवरे शय्यामध्युष्य शीतगोः ॥ ११ ॥ गयावृत्तो धरासूनोर्वारे ज्ञस्य तु हारधृक् । भस्मधृग्जीववारे स्याच्छित्त्वा यष्टिं भृगोर्दिने || १२ || कलही मन्दवारे च यातुः कृत्यान्यमी
१ । क. केदलं । २ व 'मागु' । ३ ख. घ. खला । वा' ।
Aho! Shrutgyanam