________________
१८६
श्रीशिवराजविनिर्मितोसुधीः ॥ २१ ॥ गर्गः-पुष्ये मैत्रे करेऽश्विन्या सर्वाशागमनं शुभम् । सर्वकाले हिता यात्रा हस्ते पुष्ये मृगे श्रुतौ ॥ २२ ॥ त्याज्यप्रकरणे दोषा ये प्रोक्तास्तान्विवर्जयेत् । भद्रा याने परित्याज्या क्षणाश्च निन्दितायाः ॥ २३ ॥ बादरायणः-मध्याह्न सर्वदा ज्ञेयो मुहूर्तोऽभिजिदादयः । तस्मिन्यानं सर्वदिक्षु शुभं याम्यदिशं विना ॥२४॥रत्नकोशे-अभिजित्संज्ञे धिष्ण्ये श्रवणापाढान्तरे भवति । तस्मिंश्च संप्रपातः सर्वार्थान्साधयेन्नित्यम् ॥२५॥ ज्योतिष्प्रकाशे-भद्राकुलिकपाताया दोषास्त्याज्याः प्रयत्नतः । लब्ध्वा चन्द्रबलं शुद्धे धिष्ण्ये लग्ने गमः शुभः ॥ २६ ॥ क्रान्तिपाते भवेन्मृत्युः कुलिके च महद्भयम् । यामार्धे सति शोकः स्याद्भद्रायां भङ्गमादिशेत् ।। २७ ॥ व्यसनं मरणं चापि व्यतीपाते च वैधृतौ । दिनक्षये युद्धौ वा संक्रमे च पराभवः ॥ २८ ॥ हानिः क्रूरयुते भे स्याद्भयं दग्धे च धूमिते । यातुश्चन्द्रबलाभावे यात्रा शस्ताऽप्यनर्थदा ॥ २९ ॥ यात्राशिरोमणौऋते चन्द्रबले पुंसां यात्रा शस्ताऽप्यनर्थदा । व्याख्या गम्भीरशास्त्राणां संप्रदायं विना यथा ॥ ३० ॥ कलहः सूतिकाशीचे रोगः स्याद्राहुसूतके । तिथिदोषेण संतुष्टिारदोषे मनश्चलम् ॥ ३१ ॥ गर्ग:-रवीन्द्वयनयोर्यानमनुकूलं शुभप्रदम् । तदभावे दिवा रात्री यायाद्यातुर्वधोऽन्यथा ॥ ३२ ॥ पूउआनंदपवाईदिक्ष प्रतिपदादितः । योगिनी संमुखा त्याज्या याने वा दक्षिणे सदा ॥ ३३ ॥ प्राच्यां याने कुजे लाभो मन्देन्द्रोदक्षिणे सुखम् । ज्ञे गुरौ पश्चिमे सिद्धिः शुक्रेऽके चोत्तरे शुभम् ॥ ३४ ॥ रत्नावल्यां-तिथ्यां यात्रासिद्धिः करणे न सुखं धनं मुहूर्तवशात् । नक्षत्रेणावश्यं यातुरथाऽऽयुस्तथा वित्तम् ॥ ३५॥ वारेण सौमनस्यं शुभेन चन्द्रेण मित्रसंप्राप्तिः । सर्वे गुणाः समुदिता लग्नेनैकेन लभ्यन्ते ॥ ३६॥ यात्राप्रदीपे-लग्नदोषे तु संप्राप्ते ये कुर्वन्ति प्रयाणकम् । प्रत्यावृत्तिभवेत्तेषां यदा खे पुष्यदर्शनम् ॥ ३७ ॥ रविभादिनभं नगहृदङ्गगुणविडालाडलद्विनगैः । तन्नक्षत्रे यानं विवय॑मिति देवलः प्राहः । वा यात्रा युद्धे रोगारम्भे च मङ्गले नैव ॥ ३८ ॥ तथा च-रत्नकोशे-दिनकरकरप्रतप्तां मकरादावुत्तरां च पूर्वी च । यायाच्च कर्कटादौ याम्यामाशां प्रतीची च ॥३९॥ नक्षत्रसमुच्चये-यात्रीयन्त्रहलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबन्धनविधौ पापर्धिदुर्गग्रहे । अश्वेभोष्टरथादिरोहणकृतौ त्याज्यं संदेवाऽऽडलं तेनान्यत्र शुभेषु मङ्गलविधौ दोषो न तस्य कचित् ।। ४० ॥ बादरायणः-तिथयः पक्षगुणिताः सप्तभिर्भाजितास्तथा । स्युारा वह्निगुणिता वसुभिश्चैव भाजिताः॥४१॥
१ क. गायुद्धह।
Aho! Shrutgyanam