SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७८ श्रीशिवराजविनिर्मितोक्षीणोऽरिभङ्गकृत् । कामगस्तनुते भोगाञ्छिद्रस्थो मृत्युमाशु च ॥ ३१ ॥ अक्षीणो नवमः सौख्यं दद्यात्वस्थः पदं तथा । लाभगो रत्नवस्त्राप्तिं दारिद्यं व्ययगः शशी ॥ ३२ ॥ सद्मनाशं कुजः कुर्याल्लग्नगो ज्वलनादिना । दृयोगं स्वेऽथ भूलाभं सहजेऽरिभयं सुखे ॥ ३३ ॥ विषशत्रुभयं पुत्रे यशोवृद्धि रिपी कुजः । भार्यानाशं स्मरे कुर्याद्रन्ध्रे शस्त्रात्कुलक्षयः ॥ ३४ ॥ विघ्नं धर्मस्थितः कुर्यात्कर्मनाशं च कर्मगः । लाभगोऽम्बरहेमाप्तिं राजदण्डं व्यये कुजः ॥ ३५॥ आरोग्यं लग्नगे सौम्ये कोशेऽर्थः सहजे सुरवम् । सुखे भोगः सुते विद्या रिपो शत्रुक्षयो भवेत् ॥ ३६॥ द्यूने सौभाग्यमायासो रन्ध्रे धर्मे महद्यशः । खगे शे राजसन्मानो लाभे द्रव्यं व्यये व्ययः ॥ ३७॥ आयुर्धनं तनौ जीवे धने श्रीरनुजे सुखम् । सुखे स्थैर्य चिरं पुत्रे पुत्रवृद्धिर्यशो रिपौ ॥ ३८ ॥ स्मरे भोगोऽष्टमे मध्यो धर्मगः सिद्धिदो गुरुः । व्योम्नि राज्यं धनं लाभे व्यये भवति सिद्धिदः ॥ ३९ ॥ लग्ने शुक्रो निधिं दद्यात्कोशे वित्तमथानुजे । मानोन्नति सुखे स्थैर्य वंशवृद्धिं सुते स्थितः ॥ ४० ॥ रिपो मध्योऽस्तगः कुर्यात्स्त्रीलाभ मध्यमोऽष्टमः। तपस्यन्नं पदे राज्यं लाभे श्रीः सव्ययो व्यये ॥ ४१ ॥ गृहभङ्गस्तनौ मन्दे नृपकोपाकादिभिः । धने बन्धुजनाद्धानिः सहजस्थे धनागमः ॥ ४२ ॥ सुखे सीमोद्भवं वैरं पुत्रे पुत्रात्पराभवः । षष्ठे शत्रुजनाध्वंसः कलत्रे दारदूषणम् ॥ ४३ ॥ छिद्रेऽस्त्रादिभयं घोरं धर्म प्रीतिः कुकर्मणि । मध्ये मन्दो गृहं शून्यं श्रीराये व्यसनं व्यये ॥ ४४ ॥ अहेवासोऽङ्गगे राही केतो भूतादिभिगृहे । शेषभावफलं ज्ञेयं राहु केत्वोरिनारवत् ॥ ४५ ॥ जामित्रशुद्धिमुद्दाहे व्रते भाव्यं तु पश्चमम् । याञायामष्टमं तद्वत्पातालं च प्रवेशने ॥ ४६ ॥ चतुर्दशी चतुर्थी च नवमी च तथाऽष्टमी । षष्ठी च द्वादशी चैव शुभकार्ये न शोभनाः ॥ ४७ ॥ भूताङ्कतत्त्वशकाङ्कदशनाड्यः क्रमेण तु । तासां वाः शुभे कार्ये शेषनाड्यः शुभाय हि ॥ ४८ ॥ बृहन्मार्तण्डे-केन्द्रत्रिकोणगृहगैबुधजीवशुक्रैः पापैश्च मुक्तिनिधनव्ययकर्मगैश्च । ग्राम्ये स्थिरेऽप्युपचये स्वभजन्मलग्ने लग्नाच्छशी ह्यपचये प्रविशेत्स्ववेश्म ।। ४९ ॥ श्रीपतिः त्रिकोणकेन्द्रगैः शुभरकण्टकाष्टमान्त्यगैः । असद्ग्रहैः स्थिरोदये गृहं विशेद्धले विधौ ॥ ५० ॥ केन्द्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट्च्यायगगुरौ । लग्ने भृगौ च केन्द्रे वा स्थिरग्राम्योदये विशेत् ॥ ५१ ॥ रत्नमालायांकृत्वा विप्रान्सजलकलशं चाग्रतो वामतोऽ: स्नातः स्रग्वी विमलवसनो मङ्गलैवेदघोषः । व्यस्तैर्यात्राकथितशकुनै १ घ. दृग्योगं स्वोच्चभ् । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy