________________
ज्योतिर्निबन्धः ।
१६७
अथ शकन्यासः। - शिल्पशास्त्रे-भाद्रत्रये शिरः प्राच्या याम्यां मार्गशिरत्रये । फाल्गुनत्रितये पश्चादुदग्ज्येष्ठत्रये तथा ॥ १॥ वास्तोः शिरसि पुच्छे च याम्यकुक्षौ च पृष्ठतः। आयुष्कामः खनेन्नैव वामकुक्षौ खनिः शुभा ॥ २ ॥ वास्तुक्षेत्रप्रमाणं च कल्पयित्वाऽस्य वामके । कुक्षौ खातं विधायाऽऽदो ग्रावाभिः पूरयेत्ततः ॥३॥ नारद:-- नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् । पूर्वादिदिशिरा वामपार्श्वशायी प्रदक्षिणम् ॥ ४ ॥ वास्त्वायामदलं नाभिस्तस्मादब्ध्यङ्गुलत्रयम् । कुक्षिस्तस्मिन्न्यसेच्छडु पुत्रपौत्रप्रवर्धनम् ॥ ५ ॥ लल:-त्यजेद्दश शिरोभागे ह्यग्नेः सप्तदशाशकान् । मध्ये कुक्षि विजानीयात्तत्र शकुं प्रतिष्ठयेत् ॥ ६॥ अस्थिरस्य शिरो यत्र वास्तोस्तद्गणयेत्करौ । दैर्ध्य वा विस्तृतिं तत्र कृत्वाऽष्टाश्विमितांशकान् ॥७॥ राजमार्तण्डे-ऊर्ध्व भागत्रयं त्यक्त्वा ह्यधोभागद्वयं तथा । मध्ये नाभिं विजानीयादिति प्राह पराशरः ॥ ८ ॥ यदा वामपार्थेन पूर्वशिराः शेते तदा पश्चिमे पुच्छं दक्षिणे क्रोडमुत्तरे पृष्ठमेवं सर्वत्र । चतुर्विंशत्रयोविंशत्पोडशद्वादशाङ्गुन्लैः । विप्रादीनां शकुमानं स्वर्णवस्त्राद्यलंकृतम् ॥९॥ खदिरार्जुनशालोत्थं युगं यत्र तरूद्भवम् । रक्तचन्दनपालाशरक्तशालविशालजम् ॥ १० ॥ नीपकारञ्जकुटजवैणवं बिल्ववृक्षजम् । शर्छ त्रिधा विभज्याऽऽद्यं चतुरस्रं ततः परम् ॥ ११ ॥ अष्टास्रं च तृतीयांशमनस्रमृदुमत्रणम् । एवंलक्षणसंयुक्तं परिकल्प्यं शुभे दिने।॥१२॥
इति शङ्खन्यासः।
अथ दुनिमित्तानि । वराह:-कृष्णां प्ररूढवीजां गोध्युषितां ब्राह्मणैः प्रशस्तां च । गत्वा महीं गृहपतिः काले सांवत्सरोदिते[तु शुभे]॥१॥भक्ष्यै नाकारैर्दध्यक्षतसुरभिकुसुमधूपैश्च । दैवतपूजां कृत्वा स्वपतीनभ्यर्च्य विप्रांश्च ॥ २ ॥ लल:-कुर्यात्सूत्रनिपातं मध्यागुल्याऽथवा प्रदेशिन्या । अङ्गष्ठेन वा मणिकेन कक्षान्तरजातमुक्ताभिः ॥३॥ भृगुः-विप्रः शीर्ष नृपो वक्षो वैश्यश्वोरू परः पदौ । स्पृष्ट्वा रेखां गृहारम्भे कुर्या. दनेः प्रदक्षिणाम् ॥ ४ ॥ विश्वकर्मणि-सूत्रच्छेदे मृतिः कीलेऽवाङ्मुखे व्याधिपीडनम् । गृहेशस्थपतीनां च स्मृतिलोपतनुक्षयाः ॥ ५ ॥ कुम्भे करच्युते मृत्युरुपसर्गोपवर्जिते । स्कन्धभ्रष्टे शिरोरोगो भग्ने दुर्वचने वधः ॥ ६ ॥
इति दुर्निमित्तानि ।
Aho! Shrutgyanam